पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२४३ कामन्दकीय नीतिसारे दौर्गान् पथिष्वाटविकान्तपालान् संश्लेषयेद् दानवतापि साम्ना । विरुद्धदेशेषु हि सन्निरोधे ते ह्यस्य मार्गोपदिशो भवन्ति ॥ ५५ ॥ अकारणादेव हि कारणाद् वा य एति कश्चित् पुरुषोऽरिसेवी । निजश्च विश्लिष्ट उपेत्य शत्रु- मायाति यस्तस्य गतिं प्रपश्येत् ॥ ५६ ॥ आरिप्सना मन्त्रबलान्वितेन प्रागेव कार्यो निपुणं विचारः । [ षोडशः तस्योरसि हस्तमार्द्रं दत्त्वा वाञ्छितेमुपक्रमं प्रकृतिभेदादिकं कुर्यात् । तत्र यथाभिमते मन्वो शोभनमेव । असिद्धे किं फलमित्याह - स चेदिति । यदि शत्रुरकृतसन्धिः, स तु तत्रैकः कृतो भवति स एव शत्रुः प्रकृतिभ्यः पृथकृतो भवति । आत्मसमुच्छ्रयश्च विजिगीषोरात्मनस्तत्प्रकृतिभिरैक्यं भवति ॥ ५४ ॥ दौर्गान् दुर्गपालान् । विरुद्धदेशेषु हि सन्निरोधे विरुद्धकृते उपरोधे । मार्गोपदिश इति किप्प्रत्ययान्तः ॥ ५५ ॥ अकारणात् कारणाद्वेति । स्वदोषेण स्वामिदोषेण वा शत्रुसेवको विजिगीषुमति, निजश्च विजिगीषुसेवकोऽकारणात् कारणाद्वा विश्लिष्टः शत्रुं यात्वा पुनरापतति, तयोरुभयोः प्रचारं पश्येत् किं कल्याणबुद्धिरन्यथाबुद्धिर्वेति ॥ ५६ ॥ " अभियोगश्च मन्त्रपूर्वकः फलवानिति श्लोकत्रयेण दर्शयति - आरिप्सुने- १. 'हि' क. पाठ:: २. 'तपरमप्र' ग. घ. पाठः. ३. 'न्धौ शुद्धे शो' ग. घ. पाठः ४. 'न्धिः, तदा तु' ग. घ. पाठः, ५. 'स चैकश' क. ख. पाठः. ६. 'योः प्र' ग. घ. पाठः.