पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ २४३

सर्गः ] चतुर्विंशं प्रकरणम् । सामन्तदूतेन हि साधुमन्त्रं प्रवीरयोधान्तरितेन यायात् ॥ ५१ ॥ आलोकयेद् बुद्धिगुणोपपन्नै- श्चरैश्व दूतैश्च परप्रचारम् । एतैर्वियुक्तो भवति क्षितीन्द्रो जनैरनेत्रैश्व समानधर्मा ॥ ५२ ॥ विलोभयन् किञ्चिदपि प्रयच्छन् कुर्वीत मित्रं द्विषतोऽन्तपालम् । राष्ट्रादभीक्ष्णं द्विषतः प्रपण्यैः पण्यं हितं नाडिकयाददीत ॥ ५३ ॥ उपक्रमं वाञ्छितमाशु कुर्याद् दूतोपयानात् क्रियमाणसन्धिः । स चेद् विसन्धिः स तु तत्र चैकः कृतो भवत्यात्मसमुच्छ्रयश्च ॥ ५४ ॥ उच्चैर्द्विपं विवक्षितम् । साधुमन्त्रं परातिसन्धानगर्भमालापं प्रकुर्वन् । प्रवी- रयोधान्तरितेन दुष्टव्यापारनिषेधार्थम् ॥ ५१ ॥ परप्रचारं यातव्यचेष्टितम् । एतैरिति चरैर्दूतैश्च नेत्रस्थानीयैः । अनेत्रैरन्धैः ॥ ५२ ॥ विलोभयन् इदं ते करिष्यामीति किञ्चिदेव प्रयच्छन् तदात्वे कुर्वीत मित्रं स्वीयवीवधासारप्रवर्तनार्थं प्रपण्यैः । हितं येनार्थी । नाडिकया सञ्चारपरम्परया । आभिमुख्येनाप्यादीयमानं परो निरुन्ध्यात् ॥ ५३ ॥ क्रियमाणसन्धिरिति । दूतसम्प्रेषणेन विजिगीषुणा सन्धेयस्य यातव्यस्य १. 'श्वा' ख. ग. पाठः २. 'धिकमा' ख. पाठः 'भि' क. ख. पाठः. ५. 'दा कु' क. ख. पाठः ३. 'भेदः कृ' मूलकोशेषु पाठः, ४, ६. ग. घ. पाठः,