पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२.४२ कामन्दकीय नीतिसारे पश्येन्नृपो हस्तिरथाश्वचर्या सामूहिकं योधगणं पृथक् च । विवक्षितांश्च द्विरदान् द्विरह्न- स्तुरङ्गमांश्चापि विधानयुक्तान् ॥ ४८ ॥ सुखोपगम्यः स्मितपूर्वभाषी प्रियं वदेद् वृत्त्यधिकं च दद्यात् । प्रियेण दानेन च सङ्ग्रहीता- स्त्यजन्ति भर्तर्यपि जीवितानि ॥ ४९ ॥ रथाश्वनौकुञ्जरयानयोग्यो नित्यक्रियः स्याद्धनुषि प्रगल्भः । सुमेधसां कर्मणि दुष्करेऽपि नित्यक्रिया कौशलमादधाति ॥ ५० ॥ सन्नद्धमुच्चैर्द्विपमास्थितः सन् सन्नद्धसैन्यानुगतः प्रकुर्वन् । बहिर्निरीयात् स्वस्मादावासान्निर्गच्छेत् ॥ ४७ ॥ [ षोडशः पश्येद् निर्गतः । हस्तिरथाश्वचर्यामिति हस्तिरथाश्वयानमार्गम् । सामूहिकं पृथक् चेति । समुदितं प्रत्येकं च योधगणं पश्येत् । विवक्षितान् शौर्यादिगुणयुक्तान् । द्विरह्न इति । पूर्वाह्णेऽपराह्णे च पश्येत् । विधानयुक्तान् सान्नाह्यान् ॥४८॥ प्रियेण वचनेन । भर्तरि भर्तृनिमित्तम् ॥ ४९ ॥ नित्यक्रिय इति । रथादियानयोग्योऽपि धनुषि कुशलोऽपि पुनस्तत्र नि- त्यव्यापारः स्यात् । किमर्थमित्याह - सुमेधसामिति ॥ ५० ॥ १. 'श्चैव वि' क. पाठः. २. 'षः' क. पाठः. ३. 'तस्माद्राजा नि' ग. घ. पाठः.