पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [ षोडश: २४० कामन्दकीय नीतिसारे स्ववीवधासारमुपेततोयं विश्वासिताकान्तजनं विशुद्धम् । तन्मात्रमेव द्विपतामुपेयाद् यस्मान्न कुर्यादपयानमार्तः ॥ ४२ ॥ ये दूरयात्रां सहसा विशन्ति मूढा रिपूणामविचार्य भूमिम् । ते यान्ति तेषामचिरेण खड़- धारापरिष्वङमयत्नसाध्यम् ॥ ४३ ॥ मार्गे च दुर्गोपनिविष्टसैन्यो विधाय रक्षां विधिवद् विधिज्ञः । सन्नद्धपार्श्वस्थितवीरयोधः सेवेत साध्वी निशि योगनिद्राम् ॥ ४४ ॥

म्बुवनेन यायादि’(श्लो. ७)ति । बहुतज्जयुक्तं बहुभिर्मार्गज्ञैराक्रान्तम् । प्रायेण सुख- हेतुत्वात् सुखं स्थाणुकण्टकश्वभ्राद्यभावात् ॥ ४१ ॥ शत्रुदेशं च गच्छन् कियद्दूरं यायादित्याह - स्ववीवधासारमिति । यस्मिन् मार्गे स्वकीयौ वीबधासारौ प्रवर्तेते । पर्याप्तजलम् | विश्वासिता आक्रान्ताश्च जनाः यस्मिन् तन्मात्रमेव शत्रुदेशं विशुद्धत्वाद् यायाङ्, अन्यथा विच्छिन्नबीवधासारत्वात् तोयवैकल्यादविश्वासितैरनाक्रान्तैश्च जनैः समन्ततो व्याकुलीक्रियमाणत्वादार्तः प्रतिनिवर्तेत, पराभिघातश्च स्यात् ॥ ४२ ॥ यदाह - ये दूरयात्रामिति, विशुद्धाद् देशादभ्यधिकां भूमिम् । अविचार्य वीवधासारादिकम् । अयत्नसाध्यम् अभूमिष्ठत्वात् ॥ ४३ ॥ इदानीं स्वव्यापारेणाभियोक्ता प्रदर्श्यते षोडशभिः श्लोकैः । तत्र रात्रिगतं १. क पाठः. २. 'मा' क. पाठः, 'मार्च' ग. पाठः ३. 'ध्याः ' क. पाठः. ४. 'मा 'श्रमि' क.ख. पाठः.