पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः चतुर्विंशं प्रकरणम् । २३९ समं तुरङ्गैर्विषमं च नागै- स्तथा जलाढ्यं समहीधरं च । नावा (धिदि)तः पत्तिबलानुयाते- र्यथाबलं च प्रसमीक्ष्य मिश्रम् ॥ ३९ ॥ मरुप्रगाढं पेततीह तोये ग्रीष्मे त्वनूपोदककक्षदुर्गम् । मिश्रं च संवीक्ष्य यथासुखं च गच्छेन्नरेन्द्रो विजयाय देशम् ॥ ४० ॥ न चातितोयं न च तोयहीनं युक्तं च सम्यंग्यवसेन्धनेन । उपेत्य मार्गं बहुतज्ज्ञयुक्तं सुखं प्रयाण रिपुमभ्युपेयात् ॥ ४१ ॥ तदेव दर्शयन्नाह - सममित्यादि, देशं गच्छेदिति वक्ष्यमाणेन सम्बन्धः । विषमं निम्नोन्नतम् । नावा (वृतमिदित इति । अद्भिर्वृतं नौकटकेनैव यायात् । पत्तिबलानुयातैः तुरङ्गनागनौकटकैः । यथाबलं च प्रसमीक्ष्येति । समविषममिश्रं देशं तुरङ्गैर्नागैश्च गच्छेद्, जलावृतं नागैनकटकेन वा ॥ ३९ ॥ मरुप्रगाढमिति । पतति तोये, वर्षासु गच्छेदित्यर्थः । अनूपोदककक्षदुर्गमिति । अनूपदेशमुदकयुक्तं ग्रीष्मे गच्छेत् । मिश्रं च संवीक्ष्य यथासुखमिति । साधारणदेशं साधारणे काले गच्छेत् ॥ ४० ॥ न चातितोयं न च तोयहीनमिति । कालसामान्येन सर्वसैन्यस्यायं मार्गोपदेशः । प्राक् तु *ग्रीष्मात् (?) प्रेक्षाकारिणामेव मार्ग उक्तः 'ग्रीष्मे प्रभूता- १ 'तो य' क. पाठः. २. ‘प्रतताभ्रकाले प्री’ ग. पाठः ३. 'प्रभूतोदकवर्त्मदु' क. ग. पाठः. ४. 'हि' क. ग. पाठः. ५. 'खप्रयाणो' ख. ग. पाठ:.

  • 'श्रीष्मापेक्षाकारिणामेव' इति पाठ्यं भाति ।