पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ]२३७ चतुर्विंशं प्रकरणम् । औत्पादिकी शास्त्रसमुद्भवा च सांसर्गिकी धीः परिणामिनी च ॥ ३३ ॥ उत्साहसत्त्वाध्यवसायचेष्टा- दार्ढ्यं च कर्मस्विह पौरुषं च । अरोगता कर्मफलोपपत्ति- र्दैवानुकूल्यं च निराधिता च ॥ ३४ ॥ पक्षादिनानेन गृहीतकोशः पक्षादिहीनं रिपुमभ्युपेयात् ।


उत्साहज्ञानयोर्भेदानाह — शैघ्र्यमित्यादि । व्यसनेष्वदैनां परकृतेष्वभियोगादिषु व्यसनेषु सामर्षता । अतिधीरता अतिशौर्यम् । पुनरुत्साहगुणाख्यानमभियाने उत्साहः प्रधानमिति दर्शनार्थन् । औलादिकी उत्पत्तिप्रतिबद्धा । सा चाष्टाङ्गा तत्त्वतो भवति । शास्त्रसमुद्भवा सम्यग्विज्ञातशास्त्रतत्त्वस्य तदनुस्थूता । सांसर्गिक आहार्यबुद्धिः, ज्ञानदृद्धसंसर्गादागता । परिणामिनी या तदात्वे नोत्पद्यते, किन्तु पश्चाद् बुद्धेः * स्वयं विमृशतो भवति । एताश्चतस्रो बुद्धयः सदा मन्त्रशक्तौ व्याप्रियन्ते ॥ ३३ ॥ उत्साहः शौर्यादिगुणयुक्तः । सत्त्वं व्यसनेऽभ्युदये च यदविकारकम् । अध्यवसायः इदं सावयानीति महार्थेषु चेतोवृत्तिः । स च सत्त्वपरिणामः । सत्त्वहीनस्य च तथाविधार्थसाधनाव्यवसायाभावात् । चेष्टा कायिको व्यापारः । दार्ढ्यं स्थैर्यम् । एतत पञ्चविधं चितकायपरिस्पन्दरूपं पौरुषं पुरुषकर्म । अरोगता निर्व्याधिकता । कर्मफलोपपत्तिः यद्यत् कर्मारभते तस्यतस्याप्रतिहता फलनिष्पत्तिः। आधिः प्रियवियोगादिजं दुःखम् । एतत्रितयात्मकं दैवानुकूल्यमिति॥३४॥ १. 'त्त्वव्यव' क. पाठः २. 'स्वतिपौ' क.ग. पा. ३. 'त्पत्तिकी' ङ. पाट:., 'त्पातिकी' ग. घ. पाठः. ४. 'त्पातप्रतिलम्भकी ग. घ. पाठः ५. 'तद्वतो बुद्धिमतो भ' क. ख. पाठः, "शा- श्वतोभ' ग. घ. पाठः ६ 'योगादा' ङ. पाठः. ७. 'नशे' ङ. च. पाठ:. ८. 'ने चाभ्यु' ङ. पाठ:. ९. 'धिता' क. ख. पाठ:. (?) 'बुद्धेः' इत्यस्य स्थाने 'वृद्धैः' इति वा 'बुद्धि:' इति वा पाठ्यम् ।