पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पोडश:

२३६ कामन्दकीय नीतिसारे उद्योगमेधाधृतिसत्त्वसत्य- त्यागानुरागस्थितिगौरवाणि । जितेन्द्रियत्वं प्रसहिष्णुता हूी: प्रागल्यमित्यात्मगुणप्रवेशः॥ ३१ ॥ मन्त्रस्य शक्ति सुनयप्रचारं स्वकोशदण्ड प्रभुशक्तिमाहुः । उत्साहशक्ति बलवेद्विचेष्टां त्रिशक्तियुक्तो भवतीह जेता ॥ ३२ ॥ शैध्यं सुवाक्ष्यं व्यसनेष्वदैन्य- मुत्साहसम्पत्वतिधीरता च ।

उद्योगः उद्यमः । मेघौ बुद्ध्युपलक्षणर्था । धृतिः अनुद्विग्नता । अनुरागः विजिगीषोः प्रकृतीनां च । स्थितिर्व्यवस्था । गौरवं विद्यावृद्धेषु । प्रसहिष्णुता च शीतादीनाम् । आत्मगुणप्रवेक इति । आत्मगुणानामयं प्रधानो गुणः । तेनान्यगुणाभावेऽप्यभियान्यता तत्रादरः कार्यः ॥ ३१ ॥ 1 सुनयप्रचारः सन्ध्यादीनां सामादीनां च यथावेदवस्थापनम् । तच्च ज्ञानबलाद् भवतीति कार्यद्वारेण मन्त्रशक्तिरत्रोक्ता । कौटिलीये तु स्फुटमेवोक्तं "ज्ञान- बलं मन्त्रशक्तिरि"(कौटि. अर्थ. ६.२-१७.) ति । स्वकोशदण्डाविति । स्वसम्पदुपेतौ कोशदण्डौ प्रभुशक्तिः, तयोरेव प्रभुशक्तिनिष्पादने सामर्थ्यात् । तथाचाह ‘कोशदण्डैबलं प्रभुशक्तिरि’ति बलवद्विष्टां बलवतीं विक्रमचेष्टाम् । तथाचाह ‘विक्रमबलमुत्साहशक्तिः' इति । त्रिशक्तियुक्तां जेता । अन्यथा ज्ञानविकलोऽप्रभावो निरुत्साहः कथं शत्रुं जयेत् ॥ ३२ ॥ १. ‘सु’ मूलकोशेषु पाठः. २. 'बलबुद्धिचे त्रि' के. पाठः ३ 'धावान् निरुक्तलक्षणत्वात्' ङ. च. पाठः. ४. 'णत्वात् क. ख. पाठः ५. 'यथमव' ङ. च. पाठः ६ 'भुत्वनि' ग. घ.. च. पाठः ७. 'ण्डस्य व' ङ. च. पाठः ८. 'फ' ग. घ. पाठः.