पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः२३५ चतुर्विशं प्रकरणम् । निजोsथ मैत्रश्च समाश्रितश्च सम्बन्धजः कार्यसमुद्भवश्च । भृत्यो गृहीतो विविधोपचारैः पक्षं बुधाः सप्तविधं वदन्ति ॥ २८ ॥ सदानुसृत्या गुणकीर्तनेन निन्दासहत्वेन च रन्ध्रगुप्त्या । तदर्थशौचोद्यमसङ्कथाभिः पक्षोऽनुरागीति स वेदितव्यः ॥ २९ ॥ कुलीनमार्यं श्रुतवहिनीत- मलोलुपं सत्यमहार्यमन्यैः । कृतज्ञतोर्जामतिसत्त्वयुक्तं सद्वृतपक्षं खलु तं च विद्यात् ॥ ३० ॥ ε

यियासुश्च विजिगीषुः पक्षवान् गुणवानुत्पन्नपौरुषोऽनुकूलदैवश्च यायादिति दर्शयितुमाह -- निज इत्यादि । निजो मौलः । मैत्रो मित्रसम्बन्धी । समाश्रितः आत्मरक्षाद्यर्थम् । सम्बन्धजः कन्यादानादिना कृतः । कार्यसमुद्भवः सामवायिकः । भृत्यः भृतिप्रतिबद्धः । गृहीतो विविधैरुपचारैभृतः ॥ २८ ॥ एषु सप्त योऽनुरागी सद्वृत्तश्च ताभ्यां सह यायादित्यनयोः स्वरूपमाह-सदेत्यादि । अनुसृत्या अनुगमनेन । विजिगीपुकृतो स्वनिन्दा, तस्याः सहिष्णुत्वेन । रन्ध्रगुप्त्या विजिगी दोषप्रच्छादनेन । तदर्थशौचोद्यमसङ्कथाभिरिति विजिगीष्वर्थेषु शौचमुद्यमः सङ्कथा च ॥ २९ ॥ 1 अलोलुपम् अलुब्धम् । अहार्यम् अवतार्यम् । ऊर्जा बलम् । मतिः प्रति भा । सवृत्तपक्षमिति । सद्वृत्तं पक्षं विद्यादिति सम्बन्धः ॥ ३० ॥ 1 १. 'वृत्त्या' क पाठः २. 'चरित्रगु' क ग पाठ: ३. 'यम' क ग पाठः. ४. 'नि' क.ग. पाठः ५. 'मित्रमिच्छेत् । ' क ग पाठ: ६ 'द्ध' ङ. च. पाठः ७. 'धाप' क. घ. पाठ.. ८. 'न । यदा वि' क. ख. ङ. च. पाठः ९ 'ता नि' ग.घ पाठ: १०. 'तदास्याः' क. ख. ड.च. पाठः ११. 'भा। सद्वृत्तं प' ङ. च. पाठ:.