पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

- २३४ कामन्दकीय नीतिसारे [ षोडशः वस्तुष्वशक्येषु समुद्यमश्च शक्येषु चाकालसमुद्यमश्च । शक्येषु मोहादसमुद्यमश्च त्रिधैव कार्यव्यसनं वदन्ति ॥ २५ ॥ कामोऽक्षमा दक्षिणतानुकम्पा ह्रीः साध्वसं क्रौर्यमनार्यता च । दम्भोऽभिमानोऽथ च धार्मिकत्वं दैन्यं स्वयूथस्य विमाननं च ॥ २६ ॥ द्रोहो भयं शश्वदुपेक्षणं च शीतोष्णवर्षास्वसहिष्णुता च । एतानि काले समुपाहितानि कुर्वन्त्यवश्यं खलु सिद्धिविघ्नम् ॥ २७ ॥ पुरस्ताच्च लाभेप्सना कार्यव्यसनादयो लाभविनाः परिहर्तव्या इति तद्दर्शनार्थमाह वस्तुष्वित्यादि ॥ २१ ॥ कामो मृगयादिष्वासक्तिः । अक्षमा परगुणेषु । दक्षिणता सानुक्रोशता । अनुकम्पा दीनोऽयमिति । साध्वसम् अतर्किताद् भयम् । क्रौर्य दौरात्म्यम् । अनार्यता साधुत्वानपेक्षणम् । दम्भो विसंवादकत्वम् । अभिमानः अभ्युन्नतमनस्कता । धार्मिकत्वं परलोकापेक्षणम् । दैन्यम् अल्पसन्तुष्टता । स्वयूथस्य स्वपक्षस्य ॥ २६ ॥ द्रोहः प्रतिकूलाचरणम् । भयं स्वतो भीरुता । उपेक्षणं हस्तगतावधीरणम् । 1 एतानि काल इति । लाभकाले विहितानि ॥ २७॥ १. 'क्ये ष्वकार्येषु स' ख. ग. पाठः. २. 'ति' ख. ग. पाठः ३. 'न्यका' क. पाठः ४. 'दर्श' क.. घ. पाठः ५ 'न्तः शीता' ङ. च. पाठः ६. 'ति' क. ख. ग. घ. पाठः ७. 'यु' क, ख, ग, घ, पाठः, ८. 'यं भी' ग. घ. पाठः ९. 'लेऽभिहि' ङ. च. पाठ