पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ २३३ सर्गः ] चतुर्विंशं प्रकरणम् । तथा च धीरः शमयेद्विकारं यथा भजेरन्न परान् प्रतप्ताः ॥ २२ ॥ मनुष्ययुग्यापचयः क्षयो हि हिरण्यधान्यापचयो व्ययस्तु । तस्मादिमां नैव विदग्धबुद्धिः क्षयव्ययायास करीमुपेयात् ॥ २३ ॥ अवश्य निष्पत्तिमहाफलाढ्या- मदीर्घसूत्रां परिणामकल्याम् । कामं व्ययायासकरीमुपेया- न्न त्वेव जातु क्षयदोषयुक्ताम् ॥ २४ ॥

कथमित्याह - सामादिभिरित्यादि । बाह्यमाभ्यन्तरं चे को सामादिभिः प्रशमयेत् । परस्परावग्रहभेदनैश्च बाह्यनैव. बाह्यान् आभ्यन्तरेणं चाभ्यन्तरानःयोन्येनावग्राहृयेत् । अन्योन्यस्माच्च भेदयेदित्यर्थः । प्रतता इति । नात्यर्थमुपताप्य कोपं शमयेत् । अन्यथा प्रतताः परान् गच्छेयुः ॥ २२ ॥ क्षयव्ययापेक्षया यात्रां दर्शयितुमाह - मनुष्येत्यादि । मनुष्यः क्षुद्रो मुख्यश्च । युग्यं वाहनम् | हिरण्यं सुवर्णादि । तस्मादिमां यात्रामित्यर्थात्, क्षयव्ययायासकरी नोपेयात् ॥ २३ ॥ तत्र क्षयव्ययाभ्यां बहुगुणविशिष्टो लाभः स्वल्पश्वायासः, तानुपेयादेव, यदाह -- अवश्येत्यादि । अवश्यम्भाविभिर्महद्भिश्च फलैः स्फीतां क्षयव्ययकरीमपि । अदीर्घसूत्रां यानमात्रसाध्यफलाम् । तत्र हि स्वल्प आयासः । परिणामे कल्यां निरार्बाधामुपेयात् । कामं व्ययायासकरीमिति । एका क्षयकरी यात्रा । द्वितीयाँ व्ययकरी | तृतीया चोभयकरी । तत्रोभयकरी यथोक्तामुपेयादेव । शेषयोर्महाफलतादियोगेऽपि व्ययकरीमुपेयाद् ; नेतरां, व्ययात् क्षयस्य गरीयत्वात् ॥ २४ ॥ १. 'क्ष' क पाठः. २. 'वा' ङ. पाठ:: क. ख. ग. घ. पाठः, ५ 'त्वल्प' ङच. पाठ: स. म. घ. पाठः. ८. 'त्या' ङ.च. पाठ:: ३. 'णाभ्य' क ख ग घ पाठः. ४. 'परं' ६. ‘वारामुळे क. ख. पाठ:. ७. 'या चो' क.