पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ षोडशः २३२ कामन्दकीय नीतिसारे आदाय गच्छेदबहिः प्रचारान् बाह्यांश्च कृत्वा विहितार्थ कल्यान् ॥ १९ ॥ पुरोहितामात्य कुमारकुल्याः सेनाभिगोप्तार इमे प्रधानाः । एषां हि सन्तोऽन्यतमप्रकोप- मन्तः प्रकोपं समुपादिशन्ति ॥ २० ॥ राष्ट्रन्तपालाटविकनतानां बाह्यप्रकोपो ऽन्यतमप्रकोपः । उत्पाद्यमानं निपुणं प्रचारै- स्तं सत्रिभिः सम्यगुपाददीत ॥ २१ ॥ सामादिभिः संशमयेत् प्रकोपं परस्परावग्रहभेदनैश्च ।

कोपश्च बाह्याभ्यन्तरभेदेन द्विविध इत्याह-- आभ्यन्तरादित्यादि । आभ्यन्तरों गरीयान् बहिर्भवात् । आदाय सामादिभिः प्रसाध्य | अबहिःप्रचारान् आभ्यन्तरान् कुपितान् । विहितार्थकल्यान् कृतप्रतिविधानत्वान्निर्दोषान् ॥ १९ ॥ अमात्यो मन्त्री । कुल्यो विजिगीषू राज्यार्हः । सेनाभिगोप्ता सेनापतिः । एषां स्कन्धावारान्तर्वर्तित्वात् तत्प्रकोपमन्तः प्रकोपम् ॥ २० ॥ राष्ट्रपाल राष्ट्रमुख्यः । अन्तपालो विषयान्तरक्षाधिकृतः । आटविकाः वनेचराः राजसधर्माणः । आनता दण्डोपनताः । एषां बहिर्वर्तित्वात् तत्प्रकोपो बाह्यप्रकोपः । तमिति बाह्यमाभ्यन्तरं वा । सत्रिभिः सञ्चारविशेषैः । सम्यगुपाददीत प्रसाधयेत् ॥ २१ ॥ 97 १. 'ल्पान् क. पाठः. २. 'पादन्तः' ख. ग. पाठः. 'कान्त्यजानां' मूलकोशेषु पाठः . ५. 'प्र' ख. ग. पाठ:. 'मन्त्रिभिः' ग. घ. पाठः. ८, ९. 'अ' क. ख. ग. घ. पाठ:. ११. 'तदितरद् बा' ङ. च. पाठः, ३. 'ज्या' मूलकोशपाठः. ४. ६. 'तन्मन्त्रि' क. पाठः. पाठः. १०. 'रो हि ग' ङ. च.