पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] चतुर्विंशं प्रकरणम् । पुरश्च पश्चाच्च यदा समर्थ - स्तदाभियायान्महते फलाय । पुरः प्रसर्पन्नविशुद्धपृष्ठः प्राप्नोति तीव्रं खलु पार्ष्णिभेदम् ॥ १६ ।। यास्यन् पुरो रक्ष्यमनेकवर्ग- मनेकमुख्यं च बलं विदध्यात् । अनेकमुख्यस्य हि नैकमत्य- मनेकमुख्यं द्विषतामभेद्यम् ॥ १७ ॥ अवश्ययातव्यतयोद्यतः सन् पश्चात्प्रकोपाहितयानशङ्कः । सेनापतिं वाप्यथवा कुमारं बलैकदेशेन पुरो निदध्यात् ॥ १८ ॥ अभ्यन्तराद् बाह्यकृताच्च कोपा - दाभ्यन्तरस्त्वेव तयोर्गरीयान् । २३१ पुरश्च पश्चाच्चेति । यदा समर्थः पुरस्तादनल्पं फलं साधयितुं पश्चाच्च कोपम् । पार्ष्णिभेदं पृष्ठविनाशम् ॥ १६ ॥ यस्मान्मा भूत् पार्ष्णिभेद इति, तस्मात् पृष्ठारक्षं बलं निदध्यादित्याह - यास्यन्नित्यादि । पुरो रक्ष्यं स्थानीयारक्षम् । शतको द्विशतको वा वर्गः, सोऽनेको यस्य । अनेकमुख्यम् अनेकवर्गस्वामि ॥ १७ ॥ यदा तु स्वयं जातशङ्कः, तदा द्वौ प्रेषयेद् इत्याह - पश्चात्प्रकोपाहितयानशङ्कः किं यायामह नेति । कुमारं युवराजम् । बलैकदेशेन तृतीयेन चतुर्थेन वांशेन । पुरो निदध्यात् पुरस्ताद् यातुं नियोजयेत् । स्वयं तु पश्चात् तिष्ठेदित्यर्थोक्तम् ॥ १८ ॥ १. 'अ' क. पाठः २. 'द' क. पाठः ३. 'ल्पर्क फ' क. ख. पाठः ४. 'ष्ठाक्षयं ब' क. ख. पाठ:. ५. 'तू त्रातुं' ग. घ. पाठः.