पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [ षोडश:

२३० कामन्दकीयनीतिसारे तस्माद् यतो भूरिजलस्तु पन्था यतोऽन्नपानोपचयोऽविशङ्कः । ततो हि यायाज्जनयन् प्रतापं शनैःशनैर्विश्रमयन् बलानि ॥ १३ ॥ अभ्युन्नतानामणुरप्युदारं पश्चात्प्रकोपं जनयेदरीणाम् । तं चाप्रमत्तः प्रसमीक्ष्य याया- न्न नाशयेद् दृष्टमदृष्टहेतोः ॥ १४ ॥ पश्चात्प्रकोपः पुरतः फलं च पश्चात्प्रकोपस्तु तयोर्गरीयान् । रन्धं हि तद् विप्रकृता महत्त्वं नयन्ति तस्मात् प्रविधाय यायात् ॥ १५ ॥ यतो भूरिजल इति । यत्र देशे ग्रीष्मे प्रभूतजलो मार्गः । पानं जलादन्यत् । अविशङ्कः सामन्ताटविकादिप्रतिभयाभावात् । तत इति तेन प्रदेशेन । प्रतापं जनयन् देशविलोपादिना विश्रमयन् बलानीति ॥ १३ ॥ विशुद्धपृष्ठ इत्यस्य प्रदर्शनार्थमाह – अभ्युन्नतानामित्यादि । अभ्युच्छ्रितानां विजिगीषूणां पश्चात्कोपं जनयेत् । अणुरपि अरीणां मध्ये स्वल्पोऽपि शत्रुः । उदारं महान्तम् । तं चेति प्रकोपम् । अदृष्टहेतोः यानसाध्यस्यार्थस्य कृते ॥ १४ ॥ पश्चात्प्रकोपोऽल्पः । पुरतः फलं च महत् । रन्धं हि तदिति । यस्मात् कोपमल्पमपि विप्रकृताः शत्रवो महत्त्वं नयन्ति तस्मात् प्रविधाय प्रतिकृत्य ।। १५ ।। १. 'भि'क. पाठः. २. 'स्वं च' क. पाठः ३. 'श्व' क. पाठः ४. 'त' ङ.च. पाठः.