पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] चतुर्विंशं प्रकरणम् । सर्वाणि सत्त्वानि खलूष्णकाले विनाम्बुना यान्ति परामवस्थाम् । अत्यर्थमुष्णप्रतितप्तकायाः प्रयान्ति सद्यः करिणोऽपिबन्तः ॥ ९ ॥ सुगन्धिदानस्रुतिशीकरेषु दन्ताभिघातस्फुटितोपलेषु । गजेषु नीलाभ्रसमप्रभेषु राज्यं निबद्धं पृथिवीपतीनाम् ॥ १० ॥ सुकल्पितः संयैति दृष्टमार्गः स्वधिष्ठितो वीरतमेन पुंसा । तुरङ्गमाणामपि कल्पिताना- मेको गजः षष्टिशतानि हन्ति ॥ ११ ॥ जले स्थले च द्रुमसङ्कटे च . समेsसमे साधु चलेऽचले च* । प्राकारहर्म्याट्टविदारणे च जयो ध्रुवं नागवतां बलानाम् ॥ १२ ॥ २२९ अपिबन्तो जलमित्यर्थात् । तस्मादेते परिरक्ष्याः, तत्प्रतिबद्धत्वाद्राज्यस्य, सेनाङ्गेषु प्रधानत्वाद्, अनेककार्यकरणाच्च ॥ ९ ॥ यदाह श्लोकत्रयेण - सुगन्धीत्यादि । स्फुटितमित्यन्तर्भावितण्यर्थं द्रष्टव्यम् ॥ १० ॥ सुकल्पितः साङ्ग्रामिकेण विधानेन । संयद् युद्धम् । पुंसा आधो- रणेन ॥ ११ ॥ समेsसमे चेति स्थलभेदाः ॥ १२ ॥ १. 'भूतानि' क. पाठः. २. 'शुष्कत्वमुष्णप्रवित' कं. पाठः ३. 'युगदृ' क. पाठः. ४. 'धी' क. पाठः. ५. 'णां परिक' क. पाठः. ६. 'साधारणे च द्रुमसङ्कटे च जले स्थले साधु सुसङ्कटे च' क. पाठः. ७. 'युगं यु' क. ख. ग. घ. पाठः.

  • 'चलेऽचले साधु समेऽसमे च' इति व्याख्यातृपाठः स्यात्.