पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२२८ कामन्दकीय नीति सारे [षोडश: समे प्रदेशे विषमे च भूमे- र्निम्ने स्थले वा स्वमुखेन यायात् । अनातुरः सन्नभयो हि* विद्वान् सन्नद्धसैन्यो विहितान्नतोयः ॥ ६ ॥ ग्रीष्मे प्रभूताम्बुवनेन याया- न्निर्वापणार्थं करिणां पथा तु । ऋतेऽम्भसो ग्रीष्मकृतात् प्रतापाद् भवन्ति कुष्ठानि मतङ्गजानाम् ॥ ७ ॥ स्वस्थक्रियाणामपि कुञ्जराणा- मूष्मा शरीरेषु हि जाज्वलीति । आयासयोगेन च सम्प्रवृद्धः प्रसह्य हन्ति द्विरदान् प्रतापः ॥ ८ ॥ समे विषमे च स्थलभेदे । निम्ने स्थले । स्वमुखेनेति । समादिषु येन प्रदेशेन स्वसैन्यमुखं सुगमः पन्थाः समुत्पद्यते, तेन यायादित्यर्थः । अनातुरः- अवस्कन्दकालेऽप्यनाकुलः सन् विभयोऽपि भवति । आत्मरक्षाधिकृतं सैन्यम् । विहितान्नतोयः स्वसैन्यस्य || ६ || स्वमुखेनेत्यस्य प्रदर्शनार्थमाह - ग्रीष्म इत्यादि । प्रभूताम्बुवनेन पथेति । प्रभूतमम्बु वनं च यस्मिन् पथि । निर्वापणं तापापनयनम् । ऋतेऽम्भस इति । हस्तिनोऽन्तस्तापात् तोयमनवगाहमानाः कुष्ठिनो भवन्ति, अपिबन्तश्चान्धाः ॥ ७ ॥ स्वस्थक्रियाणां स्थानस्थितानाम् । आयासः पथि शारीरो व्यायामः ॥ ८ ॥ १. ‘न् विभवेषु वि’ख. ग. पाठः २ 'यथाम्बु' क. पाठः ३. 'विनाम्बुना ग्री' कपाठः. ४. 'ध्वभिजा' क. पाठः ५. 'हि' क. पाठः ६. 'ति । स्व' क. ख. पाठः, 'ति । येन प्रदे- शेषु स्वसैन्यमु' ग घ पाठः ७. 'अलमनुक्षा' क. पाठः, 'हलमनुक्षा' ख. पाठः, 'गुल्मं सैं' ग. घ पाठः. ८. 'स्य पुनई' ङ.च. पाउः ९ 'स्वस्थस्थि' क. ख. पाठः.

  • 'विभयोऽपि' इति व्याख्यातृपाठः स्यात् ।