पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ २२७ [षोडशः सर्गः ] चतुर्विंशं प्रकरणम् । या क्षमस्तु प्रसभं निहन्तुं पराक्रमादूर्जितमप्यमित्रम् | तदापि यायादेहितानि कर्तुं परस्य वा पीडनकर्शनानि ॥ ३ ॥ सम्पन्नसस्यं विषयं परस्य यायात् प्रमृगन् विजयाय राजा । सस्योपघातेन परस्य वृत्ते- छेदः स्वसैन्योपचयश्च साधु ॥ ४ ॥ विशुद्धपृष्ठः पुरतो विचिन्वन् भयप्रदेशान् परकर्मवेदी । स्ववीवधासारविशुद्धमार्गों विशेद् धरित्रीं द्विषतोऽप्रमत्तः ॥ ५ ॥

तदेव स्फुटयन्नाह - यदेत्यादि । निहन्तुम् उच्छेत्तुम् । ऊर्जितम् अभ्युच्चितमपीति । स हि नानात्मनो (?) मित्राणिच शक्त्यादिभिः परिच्छेद्य यायादिति । अगत्या कर्शनपीडनान्यपि विहितानि कर्त्तुं यदा क्षमः, तदापि यायात् । तथाचोक्तं "प्रायशश्चाचार्याः परव्यसने यातव्यमित्युपदिशन्ति । स्वशक्त्युपचये यातव्यम्, अनैकान्तिकत्वाद् व्यसनानाम् इति कौटिल्यः । यदा वा प्रयाता कर्श- यितुमुच्छेत्तुं वा शक्नुयाद मित्रं तदा यायादि" (कौटि. अर्थ. ९.१.१३६.) ति ॥३॥ प्रमृगन् विलुम्पन्, विषयमिति सम्बन्धः ॥ ४ ॥ विशुद्धपृष्टः कृतपश्चात्प्रतिविधान इत्यर्थः । भयप्रदेशान् दुर्गान् शङ्कयमानभयहेतून् । परकर्म अवस्कन्दनादिकम् । स्वकीययोर्वीवधासारयोर्विशुद्धो मार्गो यस्य ॥ ५ ॥ १. 'भिया' ख. ग. पाठ:. २. 'त् स्वहि' ख. ग. पाठः ३. 'दश्च सैन्याप' क. पाठः ४. 'धुः' क. पाठः. ५. 'अत्यगात् कर्शनविधानाङ्गान्यपि कर्तुं कः ख. ङ. च. पाठः. ६. ७. 'तू श' ङ च. पाठः. 'नः । भ' ङ. च. पाठः.

  • ‘विहितानि' इति,

'कर्शनपीडनानि' इति च व्याख्यातृपाठः स्यात्. + 'प्रायशश्चे- त्याचार्याः' इति मुद्रितकौटिलीयार्थशास्त्रपाठः,