पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ षोडशः सर्गः ।

  • २४ यात्राभियोक्तृप्रदर्शनप्रकरणम् *

नानाप्रकारैर्व्यसनैर्वियुक्तः शक्तित्रयेणाप्रतिमेन युक्तः । परं दुरन्तव्यसनोपपन्नं यायान्नरेन्द्र विजयाभिकाङ्क्षी ॥ १ ॥ प्रायेण सन्तो व्यसने रिपूणां यातव्यमित्येवमुपादिशन्ति । तत्रैष पक्षो व्यसनं नित्यं क्षमस्तु सन्नभ्युदितो हि यायात् ॥ २ ॥ 3 एवं यथोक्तव्यसनविनिर्मुक्तः परं व्यसनिनं कथं यायाद् अभियुञ्जीत वेत्यस्मिन् सर्गे यानशेषभूतमभियास्यतां यात्राभियोक्तप्रदर्शनमुच्यते । श( क्या ? क्त्या)दीनमानुकूल्येन यात्रायाः, स्वव्यापारितया अभियोक्तुः । तत्र त्रिचत्वारिंशता श्लोकैर्यात्रा प्रदर्श्यते- नानेत्यादि । शक्तिग्रहणमुपलक्षणार्थ, शक्तिदेशकालादिना युक्त इत्यर्थः । अप्रतिमेन परस्मादुत्कृष्टेन, यदा परोऽपि शक्त्यादियुक्तः स्यात् ॥ १ ॥ मतान्तरमाह - प्रायेणेत्यादि । सन्तः आचार्याः । तत्रैष पक्षः कौटिल्यस्य । अनित्यं कादाचित्कम् । स्वयं क्षम एव यायाद् व्यसनिनमव्यसनिनं वा । कः पुनः क्षम इत्याह – अभ्युदित इति, शक्तिदेशकालाभ्युच्चितः, तस्यैव हि परं हन्तुं क्षमत्वात् ॥ २ ॥ १. 'नैष' क. पाठः. ४. 'क्तृद' ङ. च. पाठः. ५. स्वव्यापारो यात्राभि' ग. घ. पाठः. २. 'हि नि' क. पाठः. ३ 'भिप्रयास्यतो या या' ङ. च. पाठः. 'नां साध्यानामा' क. ख. ग. घ. पाठः. ६. 'साध्यायाः ७. 'दियु' च. पाठः. '८. 'परोश' क. ख. पाठः.