पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] त्रयोविंशं प्रकरणम् । चलयति हि विभूतिं भूयसीमप्यनीचै- रपि विबुधमतीनां सप्तकोऽयं दुरन्तः ॥ ६८ ॥ अरिगणा नियतं व्यसने स्थितान् परिभवन्ति भवन्ति च दुश्छिदः । अपगतव्यसनास्तु बुधा रिपून् परिभवन्ति भवन्ति च दुश्छिदः ॥ ६९ ॥ ( इति सप्तव्यसनवर्गो नाम त्रयोविंशं प्रकरणम् ) इति कामन्दकी नीतिसारे राजोपदेशे सप्तव्यसनवर्गो नाम पञ्चदशः सर्गः । २२५ पटयति पटुं करोति । परिभुज्यत इति परिभोगो विषयः । श्रेष्ठतां प्रशस्यताम् । प्रष्ठतां नेतृत्वम् । अनीचैर्हृतमित्यर्थः । दुरन्तो दुष्पाकः ॥ ६८ ॥ दुश्छिदो व्यसनग्रस्तानाम् । दुश्छिदो रिपूणाम् || ६९ ॥ (इति सप्तव्यसन वर्गों नाम त्रयोविंशं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीय नीतिसारपञ्चिकायां जयमङ्गलायां सप्तव्यसनवर्गो नाम पञ्चदशः सर्गः । १. 'नस्थानाम्' ङ.च. पाठः.