पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२२४ कामन्दकीय नीतिसारे [पञ्चदशः योगीश्वरस्तु भगवान् भार्गवो भृगुतुल्यधीः । शुक्रः पानमदात् तीव्राद् बुभुजे शिष्यमौरसम् ॥ ६४ ॥ पानाक्षिप्तो हि पुरुषो यत्रयत्र प्रवर्तते । यात्यसंव्यवहारित्वं तत्रतत्राप्रवर्तनात् ॥ ६५ ॥ कामं स्त्रियो निषेवेत पानं वा साधु मात्रया । न द्यूतमृगये विद्वानत्यन्तव्यसने हि ते ॥ ६६ ॥ तदपनयविधिज्ञैः श्रेयसां विघ्नकारि व्यसनमिदमुदारं सप्तधेहोपदिष्टम् । जनयति हि निषङादेकधैवाशु नाशं किमु न भवति हन्ता यौगपद्योदयेन ॥ ६७ ॥ पटयति परिभोगग्राहितामिन्द्रियाणां श्रुतमपि विनिहन्ति श्रेष्ठतां प्रष्ठतां च । भार्गवो भृगोरपत्यम् । बुभुजे शिष्यमौरसं कचाख्यम् ॥ ६४ ॥ अप्रवर्तनात् संव्यवहारस्येत्यर्थात्, पाने कस्यचिदपि संव्यवहाराभावात् ॥ ६५ ॥ काममित्यभ्युपगमे । अत्यन्तव्यसने इति । स्त्रीपानयोः शरीरस्थित्यर्थं मात्रया युक्तं सेवनं, तयोस्तु मानयापि न युक्तं फलाभावात्, तद्गुणानां चान्यथापि सिद्धेः ॥ ६६ ॥ उक्तार्थमुपसंहरन्नाह - तदित्यादि । तच्छब्दस्तस्मादर्थे । यस्मादेते दोषास्तस्मात् । अपनयविधिज्ञैर्व्यसनमिदमुदारमुपदिष्टमिति सम्बन्धः । सप्तव्यसनवर्ग- स्यापनयहेतुत्वात् तद्विधिज्ञैरित्युक्तम् । उदारं महत् । एकधा एकप्रकारः । हन्तेति वर्गशब्दाध्याहारात् पुल्लिङ्गता ॥ ६७ ॥ १. 'न्तं व्य' मूलकोशेषु पाठः २. 'मप्याशु' क. पाठः.