पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] त्रयोविंशं प्रकरणम् । स्त्रीमुखालोकनतया व्यग्राणामल्पचेतसाम् । ईहितानीह गच्छन्ति यौवनेन सह क्षयम् ॥ ५९ ॥ वमनं विह्वलत्वं च संज्ञानाशो विवस्त्रता । बहुबद्धप्रलापित्वमकस्माद् व्यसनं मुहुः ॥ ६० ॥ प्राणग्लानिः सुहृन्नाशः प्रज्ञाश्रुतमतिभ्रमः । सद्भिर्वियोगोऽसद्भिश्च संयोगोऽनर्थ्यसङ्गमः ॥ ६१ ॥ स्खलनं वेपथुस्तन्द्री नितान्तं स्त्रीनिषेवणम् । इत्यादि पानव्यसनमत्यन्तं सद्विगर्हितम् ॥ ६२ ॥ श्रुतशीलबलोपेताः पानदोषेण भूयसा । क्षयमक्षीणनामानो जग्मुरन्धकवृष्णयः ॥ ६३ ॥ २२३ अल्पचेतसाम् अल्पसत्त्वानाम् ईहितानि चेष्टितानि यौवनेन सह क्षीयते उत्तरकालं चेष्टासम्भवात् ॥ ५९ ॥ पानदोषानाह —— वमनमित्यादि । विह्वलत्वं परवशदेहता । संज्ञानाशी निश्चेष्टता । अबद्धम् असम्बद्धम् । अकस्माद् व्यसनं मुहुः उन्मत्तस्येव गाननृतादिकरणम् ॥ ६० ॥ प्राणग्लानिः सुरया जर्जरीकरणात् । सुहृन्नाशः अननुरागादाचार्यमित्रत्यागः । ऊहापोहासामर्थ्यात् प्रज्ञाविभ्रमः, पूर्वाधीतशास्त्रानभ्यासात् श्रुतविभ्रमः। भयस्खलितेषु संविधानस्य मतिविभ्रमः । असद्भिः शौण्डिकादिभिः । अनर्थ्यः पानशौण्डादिजनः ॥ ६१॥ स्खलनं समेऽपि पथि । तन्द्री अकालेऽपि निद्रा । नितान्तमत्यर्थम् । इत्यादीति । आदिशब्दादशौच कलहप्रमादाद्युपसङ्ग्रहः ॥ ६२ ॥ भूयसेति युक्त्या पानमव्यसनमिति दर्शयति । अक्षीणनामानः अतिप्रतीताः । अन्धकवृष्णयो यादवाः ॥ ६३ ॥ १. 'स्माद्धस' मूलकोशेषु पाठः. २. 'न्द्रा' मूलकोशेषु पाठः. ३. 'य' ख. ग. पाठः. ४. 'भूपा दो' क. पाठः. ५. 'धिकशा' क, ङ. पाठः. ६. 'नं व्य' ङ. पाठः.