पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [पञ्चदशः

२२२ कामन्दकीय नीतिसारे इति केवलदोषं हि राजा द्यूतं विवर्जयेत् । समाह्वयं च मेधावी दर्पिणां विनिवारयेत् ॥ ५५ ॥ कालातिपातः कार्याणां धर्मार्थपरिपीडनम् । नित्याभ्यन्तरवर्तित्वात् साधुप्रकृतिकोपनम् ॥ ५६ ॥ रहस्यभेदस्तत्पक्षादकार्येषु प्रवर्तनम् । ईर्ष्यामस्तथा क्रोधो निरोधः साहसानि च ॥ ५७ ॥ इत्यादि च स्त्रीव्यसने यच्च पूर्व प्रकीर्तितम् । तस्मात् स्त्रीव्यसनं राजा राज्यकामः परित्यजेत् ॥ ५८ ॥ दर्पिणामिति बलदृतानां मल्लादीनाम् । समाह्वयं प्राणिद्यूतम् । सोऽपि भिन्नपक्षद्वैधेन कोपं जनयति ॥ ५५ ॥ स्त्रीव्यसनदोषानाह - कालातिपात इत्यादि । तत्र कालातिपातो यथाकालमकरणात् । धर्मपीडनं धर्मस्थीयव्यवहारादर्शनाद्, अर्थपीडनम् अर्थाधिकारादर्शनम् । अभ्यन्तरमन्तर्गृहं, तत्र कामान्नित्यावस्थितस्य दर्शनाभावादार्यप्रकृतीनां प्रकोपनम् ॥ ५६ ॥ तत्पक्षात् स्त्रीपक्षात् । स्त्रीषु हि विश्वासे तत्पक्षोऽपि रहस्यविद् भवति । अकार्येषु नृत्तगीतादिषु । ईर्ष्यामर्ष ईर्ष्याकोपो दुःखहेतुः । क्रोधः स्त्रीभिः सुखासीनस्य कृच्छ्रेण केनचित् स्पृष्टस्य । तथा कामासक्तेन हि पथ्यकारिणोऽपि दारा अवरुध्यन्ते । साहसानि परदाराभिगमने प्राकारलङ्घनादीनि ॥ ५७ ॥ इत्यादि चेति । आदिशब्दाद् अशौचलाघवप्रत्यवायाद्युपसङ्ग्रहः । यच्च पूर्व प्रकीर्तितं द्यूतव्यसने । तथाहि कामुकोऽपि महान्तमर्थमसत्पात्रेषु विनियोजयन् क्षणान्नाशयति । तथा सत्यस्य च परित्यागः । निर्धनस्य धनिकव्यापादनान्नैष्टुर्यम् । प्रतिकामुकैः कलहाद् वाक्छस्त्रखण्डनम् । धनहीनस्य लोभः । इत्यादि यथासम्भवं योजनीयम् ॥ ५८ ॥ १. 'ण दृष्ट' ङ. पाठः. २. 'बधकारिणोऽपि दारा न निरुध्यन्ते' ग. घ. पाठः.