पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] त्रयोविंशं प्रकरणम् | २२१ नलश्च राजा द्यूतेन हते राज्ये महोदये । धर्मदारान् वने त्यक्ता परकर्मकरोऽभवत् ॥ ५१ ॥ तुल्यो भुवीन्द्रतुल्यस्य यस्य नास्ति धनुर्धरः । स रुक्मी रुक्मशैलाभो द्यूतदोषाद्गतः क्षयम् ॥ ५२ ॥ राजा काशिकरूशानां दन्तवक्रोऽपि मन्दधीः । तीव्राद् द्यूतकृताद् दोषाद् दन्तभङ्गमवाप्तवान् ॥ ५३ ॥ द्यूतादनर्थसंरम्भो द्यूतात् स्नेहक्षयो महान् । पक्षाणां चापि महतां द्यूताद्भेदः प्रवर्तते ॥ ५४ ॥ नलश्च राजा द्यूतेन हृते राज्ये भ्रात्रा जयसेनेन धर्मदारान् दमयन्तीं वने त्यक्त्वा परकर्मकरोऽभवद् ऋतुपर्णस्य राज्ञो देशमुपगम्य तत्सूपकारकर्म कृतवान् ॥ ५१ ॥ तुल्यो यस्य नास्ति धनुर्धरः, तस्य चतुर्मार्गेऽस्त्रग्रामे किंपुरुषेणाभिविनयानुज्ञातत्वात् ॥ ५२ ॥ राजा काशिकरूशानामिति । काशयः करूशाश्च नाम जनपदौ । तत्र राजा दन्तवक्रो नामासुरः स्वदुहितरं प्रद्युम्नसुताय दत्तवान् । सोऽपि यदुचक्रपरिवृतस्तत्रागत्य तां परिणीतवान् । पारियांत्रिकेषु कुतश्चित् प्रसङ्गाद् यथाधीतेन शिल्पेन तत्रतत्र तैः सह स्पर्धमानेषु (अपि महा ! अहम) क्षहृदयविदित्युत्थाय साम्बो विष्णुपुत्रो दन्तवक्रेण सह देवितुमारेभे, बलभद्रोऽपि दन्तवक्रगृह्येण रुक्मिणा क्रथकैशिकेन राज्ञा । ततो द्यूतकलहात् प्रकुपितेन बलभद्रेण स्तम्भमुत्पाट्य हतो रुक्मी क्षयमगमत् । दन्तवक्रोऽपि मित्रार्थेनोद्गच्छंस्तेनैव चिबुके समाह्रतो दन्तभङ्गमवाप ॥ ५३ ॥ " अनर्थसंरम्भः अस्माभिर्जितं वयमन्यायेन जिता इत्येवंरूपः । स्नेह- क्षयो जयपराजयवशात् । पक्षाणां महतां सङ्घातारीणाम् ॥ ५४ ॥ १. 'मारब्धवान्' क. ख. ड. च. पाठः,