पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२२० [पञ्चदशः कामन्दकीय नीतिसारे प्रतिक्षणं क्रोधहर्षो सन्तापश्च प्रतिक्षणम् ।

प्रतिक्षणं च संक्लेशः साक्षिप्रश्नः प्रतिक्षणम् ॥ ४७ ॥ स्नानादिगात्रसंस्कारपरिभोगेष्वनादरः । अव्यायामोऽङ्गदौर्बल्यं शास्त्रार्थप्रत्युपेक्षणम् ॥ ४८ ॥ गूहनं मूत्रशकृतोः क्षुत्पिपासोपपीडनम् । इत्यादींस्तन्त्र कुशला द्यूतदोषान् प्रचक्षते ॥ ४९ ॥ पाण्डवो धर्मराजस्तु लोकपाल इवापरः । द्यूतेन सता दीव्यन् कलत्रापहारितः ॥ ५० ॥ क्रोधो जीयमानस्य । हर्षो जयतः । सन्तापो हृतार्थस्य । संक्लेशः संरोधादिः । साक्षिप्रश्नो विवादे साक्षिपृच्छा ॥ ४७ ॥ स्नानादीति । आदिशब्दादभ्यङ्गमर्दनाद्युपसंग्रहः । अङ्गदौर्बल्यं भोजनवेलातिक्रमात् । यत् पूर्वमधीतं शास्त्रं, तस्यार्थानिरूपणम् ॥ ४८ ॥ गूहनं मूत्रशकृतोः वेगप्राप्तयोरनिस्सारणाद् विधारणम् । इत्यादीनि (ति) । आदिशब्दात् स्तेयापवादाद्युपसङ्ग्रहः ॥ ४९ ॥ धर्मराजो युधिष्ठिरः । द्यूतेनासता कैंपटद्यूतेनेत्यर्थः । तथाहि तस्य प्राप्त - राज्यस्य दुर्योधनो महीयसीं विभूतिं दृष्ट्वा तदतिसन्धानोपायं चिन्तयन् मातुलेन शकुनिनाक्षहृदयविदा द्यूतं कॉरितस्तद्देशं च यदृच्छया युधिष्ठिरमागच्छन्तं देवनायाहूतवान् । सोऽपि ‘आहूतेन क्षत्रियेण द्यूताद् रणाच्च न निवर्तितव्यमिति विधानं मत्वानेन सह देवितुमारेभे । तयोश्चेदमध्यवसितं "यदि दुर्योधनेन जितं, तदा युधिष्ठिरेण राज्यं त्यक्त्वा द्वादश वर्षाणि वने स्थातव्यं, त्रयोदशे वर्षे अज्ञातचर्यया । अथ चेत् परिज्ञातं स्यात्, पुनर्द्वादश वर्षाणि वने स्थातव्यम् " इति । ततोऽसौ शकुनिप्रयुक्तेन कपटद्यूतेन दुर्योधनेन जित इति ॥ १० ॥ १. 'क्षोभह' ख. ग. पाठ०. २. 'व' ख. ग. पाठः. ३. 'कूट' ङ. पाठ:. ङ. पाठः, ५. 'भव' ग. घ. पाठः. ६. 'मु' ङ. च. पाठः. ४. 'ग्राहित'