पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ]२१९ त्रयोविंशं प्रकरणम् । सद्भिर्यो मृगयायाने गुणः साधु प्रकीर्तितः । क्रीडाप्रीतिर्नरपतिस्तं तत्र स्वयमाप्नुयात् ॥ ४२ ॥ विधिरेष समुद्दिष्टो मृगयाक्रीडने वैरम् | न गच्छेदन्यथा राजा मृगयां मृगयुर्यथा ॥ ४३ ॥ महतोऽपि क्षणान्नाशो धनस्य ह्रीविमुक्तता । निस्सत्यता निष्ठुरता क्रोधो वाक्छस्त्रखण्डनम् ॥ ४४ ॥ लोभो धर्मक्रियालोपः कर्मणामप्रवर्तनम् । सत्समागमविच्छित्तिरसद्भिः सह वर्तनम् ॥ ४५ ॥ अर्थनाशक्रियावश्यं नित्यं वैरानुबन्धिता । सत्यप्यर्थे निराशत्वमसत्यपि च साशता ॥ ४६ ॥ यथोक्तानुष्ठानफलमाह – सद्भिरिति । गुणः जितश्रमत्वादिः ॥ ४२ ॥ न गच्छेदन्यथा, यथोक्तदोषसम्भवात् । मृगयुः व्याधः ॥ ४३ ॥ द्यूतदोषानाह - महत इत्यादि । क्षणान्नाश एकेनैव पणेन । ह्रीविमुक्तता असभ्याचरणात् । निस्सत्यता असमपाते विषमपात इत्यभिधानात् । निष्ठुरता द्यू- तापहृतस्य धनस्य कृते परस्परव्यापादनात् । क्रोध इति । द्यूतासक्तमना हि केन- चित् कृच्छ्रे पृष्टः कुप्यति । तथा परस्परकलहाद् वाचा खण्डनमाक्रोशनं शस्त्रखण्डनं च ॥ ४४ ॥ 1 लोभः परद्रव्येषु द्यूतहृतेषु । कर्मणां सदा क्रियमाणानाम् । सत्समागमविच्छित्तिः, तत्प्रसंयुक्तस्य हि विद्यावृद्धानामनुपयोगात् । असद्भिः द्यूतकारिभिः ॥ अर्थनाशक्रिया केनचिन्निक्षिप्तस्याप्यर्थस्याहृतमिति नाशकारणम् । वैरानुबन्धिता अहमनेन संरुद्धो बद्ध इति । निराशत्वं निराशता पुनरपि जेष्यतीति । साशता सप्रत्याशता जेष्यामीति ॥ ४६ ॥ १. ‘धृ' स्त्र. ग. पाठः. २. 'स्तत्र सर्वमवाप्नु' क. पाठः. ३. 'परः' क. पाठः ४. ‘च्छ्रेण प्रकृष्टं कु' क. ख ङ. पाठः. ५. 'त्संयुक्त' क. ख. ग. पाठः. ६. संकटस्थो ब' क. ख. ङ. पाठ.. ७. 'रयं जे' ङ. पाठः.