पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२१८पञ्चदशः कामन्दकीय नीतिसारे बहिर्दूरान्तराभोगनिर्वृक्षस्तम्भभूतलम् । अगम्यं रिपुसैन्यानां मनःप्रीतिविवर्धनम् ॥ ३७ ॥ तद्वनेचरचित्तज्ञैः क्लेशायासस हैर्दृढैः रक्षितं रक्षिभिः स्वाप्तैर्भूभुजामभिवृद्धये ॥ ३८ ॥ तत्कर्माप्तो नरेन्द्रस्य जनो जितपरिश्रमः । क्रीडनायात्र विविधा मृगजातीः प्रवेशयेत् ॥ ३९ ॥ अन्यकार्याविरोधेन प्रातश्चङ्क्रमणैक्षमः । क्रीडनाय विशेद् राजा तदाप्तैः सहितो मितैः ॥ ४० ॥ यदा च प्रविशेद् राजा क्रीडनार्थं तदा बहिः । सन्नद्धं यत्नतस्तिष्ठेत् सैन्यं दूरान्तगोचरम् ॥ ४१ ॥ बहिः परिखाया इत्यर्थात् । दूरे क्रोशमात्रान्तरे यो वनाभोगो (सन ?वन) वैस्तार्य समन्तात्, तत्र समन्ताद् निर्वृक्षं निस्तम्भं च भूतलं यस्य । एवञ्च निराश्रयत्वात् तदगम्यं रिपुसैन्यानाम् ॥ ३७ ॥ तद्वनेचरचित्तज्ञैरिति । तस्मिन् वने मृगाणां दुष्टादुष्टपरिज्ञानार्थ ये शबरपुलिन्दादयो निवासिकाः, तदनुकूलै रक्षिभिरिति सम्बन्धः । दृढैः स्थिरैः । स्वाप्तैः परस्याभेद्यैः ॥ ३८ ॥ तत्कर्माप्तः मृगप्रवेशनकर्मकुशलः । जनो नरेन्द्रस्य नरेन्द्रानुरक्त इत्यर्थः, दुष्टमृगप्रवेश निषेधार्थम् ॥ ३९ ॥ अन्यकार्याविरोधेन, अन्यकार्यविरोधित्वाद् व्यसनमेव स्यात् । प्रातः प्रविशेदिति सम्बन्धः । चङ्कमणक्षमः शरीरपाटवात् । तदाप्तैरिति । तद् मृगयारण्यम् । मितैः स्तोकैः ॥ ४० ॥ सन्नद्धं यत्नतस्तिष्ठेत् परावस्कन्दनपरिहारार्थम् । दूरान्तगोचरं दूरदेशवर्ति ॥ ४१ ॥ १. 'पर' क. पाठः. २. 'णे क्षमम्' ख. ग. पाठः.

  • 'बहिर्दूरवनाभोग' इति पाठो भवेद् व्याख्यानदृष्टया ।

३. 'ब' ङ. पाठः.