पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] त्रयोविंशं प्रकरणम् । गिरेरुपान्ते नद्या वा पर्याप्तजलशाद्वलम् । अकण्टकलतागुल्मं विषपादपवर्जितम् ॥ ३१ ॥ पादपैः पुष्पफलदैः प्रज्ञातैश्चित्तहारिभिः । स्निग्धनीलघनच्छायैर्विरलैरुपशोभितम् ॥ ३२ ॥ पांसुपूरितनिश्छिद्रश्वभ्रप्रदरकन्दरम् । दलितस्थाणुवल्मीकपाषाणसमभूतलम् ॥ ३३ ॥ शोधितग्राहसलिलमगभीरजलाशयम् । नानापुष्पसमाकीर्णं नानाविहगसेवितम् ॥ ३४ ॥ सुपात्यमृगसम्पूर्णं हस्तिनीकलभान्वितम् । भग्नदंष्ट्रनखव्यालं छिन्नशृङ्गविषाणि च ॥ ३५ ॥ सुखसंसेव्यलतया पुष्पपर्णावनद्धया । वनराज्या परिक्षिप्तं परिखातटजातया ॥ ३६ ॥ गिरेर्नद्या वेति उभयोर्मृगोश्रयत्वात् ॥ ३१ ॥ २१७ प्रज्ञातैः लोकप्रतीतैः । विरलैः यानवाहनानुपरोधकैः ॥ ३२ ॥ पांसुभिः पूरितत्वान्निश्छिद्राः अश्वादिसञ्चरणार्थं श्वभ्रा यत्रेति विग्रहः । प्रदरो भूमेः स्फुटितम् । दलितस्थाण्वादित्वात् समभूतलम् ॥ ३३ ॥ ग्राहो नक्रादिः । तदपनयनात् परिभोग्यं जलं भवति । अगम्भीरत्वाच्च तदवगाहन योग्यो जलाधारः ॥ ३४ ॥ सुपात्यः सुखव्यापाद्यः । कलभः पोतः । व्यालाः व्याघ्राः । विषाणिनो गण्डकादयः । ते तु भग्ननखदंष्ट्रत्वात् कलितमृगत्वाच्च नाभिभवन्ति ॥ ३५ ॥ सुखसंसेव्यलतयेति । अकण्टकिनी निर्विषा च लता सुखसंसेव्या भवति । वनराज्या परिक्षिप्तं मोहार्थं विश्रमार्थं च ॥ ३६ ॥ १. 'नानावलिपिन' क पाठः. २. 'गयाश्र' क. ख. ग. घ. पाठः. ३. 'यात्' क. ख. ग. घ. पाठः,