पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

११६ [पञ्चदशः

कामन्दकीय नीतिसारे दवाग्निधूमसंरोधो दिङ्मोहभ्रमणानि च । इत्यादि पृथिवीन्द्राणां मृगयाव्यसनं स्मृतम् ॥ २५ ॥ जितश्रमत्वं व्यायाम आममेदः कफक्षयः । चलस्थिरेषु लक्षेषु बाणसिद्धिरनुत्तमा ॥ २६ ॥ मृगयायां गुणानेतानन्ये प्राहुर्न तत् क्षमम् । दोषाः प्राणहरोः प्रायस्तस्मात् तत् परिवर्जयेत् ॥ २७ ॥ आमादयो हि जीर्यन्ति योग्ययैव दिवानिशम् । चलेषु यन्त्रलक्षेषु बाणसिद्धि जायते ॥ २८ ॥ अथ चेन्मृगयाक्रीडावाञ्छा तन्नगरान्तिके । कारयेन्मृगयारण्यं क्रीडाहेतोर्मनोहरम् ॥ २९ ॥ परिक्षिप्तं परिखया दुर्गया मृगगम्यया । आयामपरिणाहाभ्यामर्धयोजनसम्मितम् ॥ ३० ॥ 1 अरण्यमध्यवर्तिनो वनाग्निधूमाभ्यां प्राणोपघाती संरोधः । दिङ्मोहर्भ्रमेण रिपुविषयगमनमपि स्यादित्यादिदोषजातं मृगयाव्यसने स्मृतम् । आदिशब्दाद् दशरथादिवच्छापादेरपि भयं द्रष्टव्यम् || २५ || राज्ञो गुणानावहति मृगयेत्यन्ये, यदाह - जितश्रमत्वमिति । चलस्थिरेष्विति । धावत्सु तिष्ठत्सु च बाणसिद्धिः लक्ष्यसाधनात् ॥ २६ ॥ न तत् क्षममिति । न तद् मृगयाव्यसनं युक्तम् ॥ २७ ॥ कुतस्तर्हि तद्गुणा इत्याह- - आमादय इति । योग्यया आयुधवाहनशि क्षया । यन्त्रलक्षेषु यन्त्रघटितेषु मृगादिलक्षेषु ॥ २८ ॥ तन्नगरान्तिके राजनगरसमीपे । मृगयारण्यं मृगयावनम् ॥ २९ ॥ परिक्षिप्तं परिवेष्टितम् । दुर्गया मनुष्यागम्यया । मृगगम्ययेति आगतमृग- वधार्थम् । आयामो दैर्घ्यम् । परिणाहो विस्तारः ॥ ३० ॥ १. 'रप्रायास्त' ख. ग. पाठः. २. 'व्यसनं महत्' क. पाठः. 'स्त' ख. ग. पाठः. ५. 'मृगाणामप्यगम्यया' क. पाठः.. ७. ‘न्तुकमृगलिप्सार्थम्' ङ. पाठः. ३. 'पि' क. पाठः ४, ६. 'भ्रमणादरिवि' ङ. पाठः,