पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] त्रयोविंशं प्रकरणम् । अभियानस्य सम्पत्त्या यानव्यसनजं महत् । दुःखं प्रतप्तसिकता कुशकण्टकभूमयः ॥ २१ ॥ वृक्षसङ्कटजा देशा लताकण्टकपातनम् । शैलपातशिलाजालस्थाणुवल्मीकपीडनम् ॥ २२ ॥ प्रच्छन्नोपहितैः शैलसरिद्विपिनकुक्षिषु । वधबन्धपरिक्लेशं आसन्नाटविकादिभिः ॥ २३ ॥ स्वसैन्यैश्च स्वकुल्यैश्च परभिन्नैश्च मारणम् * । ऋक्षाजगरमातङ्गसिंहव्याघ्रभयादि च ॥ २४ ॥ २१५ अभियानस्य सम्पत्त्येति । अभिमुखीभूतस्यान्यदीयाश्वस्य सम्पातेना- त्मीयाश्वयानस्याघातः पातो वा व्यसनं, तस्माज्जातं महद् दुःखं भवति, अश्ववराना- क्रम्य तस्य सम्पतनात् । प्रतप्तसिकतादिभिः कुशकण्टकैश्च चितभूमयो दुःखहेतवः ॥ २१ ॥ वृक्षसङ्कटना देशाः तत्र हि प्रविष्टस्य दुःखेन निर्गमनम् । तत्र कम्भारी- कण्टकारिकादिलताकण्टकैः पातनम् । तथा शैलात् पातो मृगमनुसरतः शिलाजा- लादिभिः पीडनम् ॥ २२ ॥ प्रच्छन्नोपहितैरिति । अवस्कन्दादिदानार्थं शैलादिकुहरेषु प्रच्छन्नलीनैः । आसन्नाटविकादिभिरिति । आदिशब्दात् स्तेनावरुद्धाद्युपग्रहः ॥ २३ ॥ स्वकुल्यैः परभिन्नैरिति । राज्यार्हा यूयं कथं विजिगीषुणैकेनक्रामता भुज्यमानमुपेक्षन्ते भवन्तः, वयं च सहाया इति परेण भिन्नैर्विजिगीषु सैन्यैश्च मृगयां गतस्य प्रमापणमाघातः । साक्षादृक्षादिभ्यः प्राणोपघातिभ्यो भयादीति ॥ २४ ॥ १. 'शः सामन्ताट' क. पाठः. २. 'नि' क, पाठः. ३. 'थं तु वि' ङ. पाठः . ४. 'न भज्य' क.ख.ग. घ. पाठः. 'परभिन्नैः प्रमापणम्' इति व्याख्याभिमतः पाठः स्यात्