पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२१४ [पञ्चदशः कामन्दकीय नीतिसारे महत्स्वप्यपराधेषु दण्डं प्राणान्तिकं त्यजेत् । ऋते राज्यापहारात् तु तत्र दण्डः प्रशस्यते ॥ १७ ॥ दूष्यस्य दूषणार्थं हि परित्यागो महीयसः । अर्थस्य नीतितत्त्वज्ञैरर्थदूषणमुच्यते ॥ १८ ॥ तदकस्मात् समाविष्टः कोपेनातिबलीयसा । नित्यमात्महिताकाङ्क्षी न कुर्यादर्थदूषणम् ॥ १९ ॥ यानक्षोभो यानपातो यानाभिहरणं तथा । क्षुत्पिपासाश्रमायासैशीतवातोष्णपीडनम् ॥ २० ॥ दण्डेष्वपि बधाख्यं दण्डं लोकजिघृक्षार्थं त्यजेदित्याह - महत्स्वपीति । बन्धताडने त्वनुशासनार्थं प्रवर्तयेदेव । ऋते राज्यापहारादिति । राज्यापहारे वधाख्य एव दण्डः प्रशस्यते, तदर्थत्वात् प्रयासस्य ॥ १७ ॥ । अर्थदूषणमाह – दूष्यस्येत्यादि । अर्थदूषणम् अर्थस्योपघातः । तथाद्युक्तम् * ' अदानमादानं विनाशः परित्यागश्चार्थस्येत्यर्थदूषणम् ' (कौटि. अर्थ. ८. ३. १२९.) तत्र पूर्वप्रवृत्तस्यार्थस्योच्छेदाददानम् । तस्य पण्यागारादिनाकर्षणम् आदानम् । स्वयमार्जितस्याग्न्यादिना विध्वंसनं विनाशः । कुतश्चिल्लभ्यमानस्य विघातनेन परित्यजनं परित्यागः । तदिदं क्रोधोत्कर्षसन्दर्शनार्थ परित्यागादर्थदूषणमुक्तम् । दूषणार्थम् अपकारार्थं, यद् दूष्योऽन्यस्तस्मान्महीयांसमर्थं प्राप्स्यति । तस्यार्थस्य विघातनेन परित्यजनमर्थदूषणम् ॥ १८ ॥ तच्च दूष्ये क्रियमाण (म) व्यसनम् । अन्यत्र तु व्यसनमेवेत्याह —तदकस्मादिति । कार्य विनेत्यर्थः । कोपेनातिबलीयसेति महतः कोपात् परित्यागाख्यमर्थदूषणमुत्पद्यत इति दर्शयति, यस्मादन्यस्मादपि लभ्यमानमर्थं घातयति ॥ १९ ॥ इदानीं सप्तचत्वारिंशता श्लोकैः कामजस्य दोषा उच्यन्ते । तत्र मृगयामधिकृत्याह - यानेत्यादि । यानक्षोभः यानकृतोऽङ्गसंक्षोभः । यानात् प्रधावतः पातः । यानेन प्रजविना अभिहरणम् अनभिमतदेशप्रापणम् । पीडनशब्दः क्षुदादिभिः प्रत्येकं योज्यः । आयासः पण्यादीनां व्यापारक्लेशः ॥ २० ॥ १. 'साः शी' ख. ग. पाठः. २. 'ष्योऽस्मा' ङ. पाठः. 'दानमादानम्' इति मुद्रितकौटिलीयार्थशास्त्रपाठः.