पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] त्रयोविंशं प्रकरणम् ! २१३ हृदये वागसिस्तीक्ष्णो मर्मच्छन्निपतन् मुहुः । तेजस्विनं दीपयति स दीप्तो याति वैरिताम् ॥ ११ ॥ नोजयेद् जगद् वाचा रूक्षया प्रियवाग् भवेत् । प्रायेण प्रियवक्कर्मा कृपणोऽपि हि सेव्यते ॥ १२ ॥ असिद्धसाधनं सद्भिः शासनं दण्ड उच्यते । तं युक्तयैव नयेद् दण्डं युक्तदण्डः प्रशस्यते ॥ १३ ॥ उद्वेजयति भूतानि दण्डपारुष्यवान् नृपः । भूतान्युज्यमानानि द्विषतां यान्ति संश्रयम् ॥ १४ ॥ आश्रिताश्चैव लोकेन समृद्धिं यान्ति विद्विषः । समृद्धाश्च विनाशाय तस्मान्नोजयेत् प्रजाः ॥ १५ ॥ लोकानुग्रहकर्तारः प्रवर्धन्ते महीभुजः । लोकवृद्ध्या नरेन्द्राणां वृद्धिस्तत्संक्षये क्षयः ॥ १६ ॥ दोषान्तरमाह - हृदय इत्यादि ॥ ११ ॥ नोद्वेजयेद् जगद् यथोक्तदोषपरिहारार्थम् । प्रियवाक्कर्मा प्रियाभिधायी । कृपणः अदाता ॥ १२ ॥ दण्डपारुष्यमाह -असिद्धसाधनमिति । अर्थहरणं ताडनं वधश्चैतत् त्रितयमसिद्धार्थसाधनादनुशासनं दण्डः । तं युक्त्यैव नयेद् अनुशास्ये यथार्हमेव प्रवर्तयेत् । युक्तदण्डस्य राज्ञः प्रशस्यत्वात् । तेनैवंविधो न व्यसनमिति ॥ १३ ॥ अयुक्तो दण्ड्ये चादण्ड्ये च प्रवर्तमानो दोषावहत्वाद् व्यसनमित्याह - उद्देजयतीत्यादि ॥ १४ ॥ आश्रिता विद्विष इति सम्बन्धः । लोकेनोद्वेजितेन । विनाशाय विजिगीषोः ॥ १५ ॥ लोकानुग्रहकर्तार इति । धान्यपशुहिरण्योर्पैसङ्ग्रहैर्लोकमनुगृह्णन्तो वँर्धन्ते । दण्डवाक्पारुष्याच्च निगृह्णन्तः क्षीयन्ते । यदाह - लोकवृद्ध्येति । अनुगृहीते लोके जनवृद्ध्या राज्ञां वृद्धिः । निगृहीते तु तत्संक्षयात् क्षयः ॥ १६ ॥ १. 'निपतन् वागसिस्तीक्ष्णो हृदये मर्महा मुहुः क. पाठः २. 'वाग् लोके कृ' क. पाठः. ३. 'विवृद्धिं' क. पाठः. ४. 'विवृद्धा' क. पाठः. ५. 'र्त' ख.ग. पाठः. ६. 'पद्म' ध. पाठ:. ७. 'र्त' क..ग.घ. पाठः.