पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पञ्चदशः

२१२ कामन्दकीय नीतिसारे मन्त्रिभिर्मन्त्रकुशलैरन्धः पथि निवेश्यते । चक्षुष्मांस्तु मदान्धः सन्नात्मानं हन्त्यशेषतः ॥ ५ ॥ शास्त्रचक्षुर्नृपस्तस्मान्महामात्रमते स्थितः । धर्मार्थप्रतिघातीनि व्यसनानि परित्यजेत् ॥ ६ ॥ वाग्दण्डयोश्च पारुष्यमर्थदूषणमेव च । स्मृतं व्यसनतत्त्वज्ञैः क्रोधजं व्यसनत्रयम् ॥ ७ ॥ कामजं मृगया द्यूतं स्त्रियः पानं तथैव च । व्यसनं व्यसनार्थज्ञैश्चतुर्विधमुदाहृतम् ॥ ८ ॥ वाक्पारुष्यं परं लोक उद्वेजनमनर्थकम् । न कुर्याद् विप्रियां वाचं प्रकुर्याज्जनमात्मसात् ॥ ९ ॥ अकस्मादेव यः कोपात् पैरुषं बहु भाषते । तस्मादुद्विजते लोकः सस्फुलिङ्गादिवानलात् ॥ १० ॥ तदेव स्फुटयन्नाह - मन्त्रिभिरिति । 'अन्धः सञ्चार्यते धर्मादि' त्याचार्यरविगुप्तपादैः । अशेषतः सह राज्येन हन्तीत्यर्थः ॥ ५ ॥ यस्मादन्धेऽपि (न) दोष:, तस्मात् सुगृहीतशास्त्रचक्षुषा भवितव्यं, तस्यैव व्यसनापोहनसामर्थ्यात् । यदाह - शास्त्रचक्षुरिति । महामात्रमते स्थितः नृपा- मात्ययोर्हि परस्परानुकूलयोः सर्वसम्पत्सम्भवात् । धर्मार्थप्रतिघातीनोति । धर्मार्थयोः प्रधानत्वात् तदुपघातीनि त्यजेत् ॥ ६ ॥ तानि व्यसनान्याह --- वागित्यादि । क्रोधजं व्यसनत्रयं, वाक्पारुष्यादीनां 1 कोपसमुत्थत्वात् ॥ ७ ॥ कामजं व्यसनं चतुर्वर्ग, मृगयादीनामिच्छाप्रभवत्वात् ॥ ८ ॥ तत्रैकादशभिः श्लोकैः कोपजस्य दोषानाह - वाक्पारुष्यमित्यादि । अपवादः, कुत्सनम्, अभिभर्त्सनं चेति वाक्पारुष्यम् । तदनर्थकं न कुर्यात् । कार्यापेक्षया क्रियमाणं न व्यसनमिति ॥ ९ ॥ कथं तदुद्वेजनमित्याह -- अकस्मादित्यादि । बहुभाषणं दुरुक्तमित्यर्थात् । तस्मादुद्विजते लोको दुर्वचनदण्डत्वात् ॥ १० ॥ १. 'तक्ष्णं सुब' ख.ग. पाठः. २. 'दन्येऽपीत्येष दो' ङ. च. पाठः,