पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ पञ्चदशः सर्गः ।

  • २३ सप्तव्यसनवर्गप्रकरणम् *

अमात्याद्याः प्रकृतयो मित्रान्ता राज्यमुच्यते । अशेषराज्यव्यसनात् पार्थिवव्यसनं गुरु ॥ १ ॥ राजा त्वव्यसनी राज्यव्यसनापोहनक्षमः । न राजव्यसनापोहे समर्थ राज्यमूर्जितम् ॥ २ ॥ आत्मामात्यप्रजा दुर्गकोशानां दण्डमित्रयोः । व्यसनेभ्यः समुन्नेता राजा यः स त्रिवर्गभाक् ॥ ३ ॥ अशास्त्रचक्षुर्नृपतिरन्ध इत्यभिधीयते । वरमन्धो न चक्षुष्मान् मदादाक्षिप्तसत्पथः ॥ ४ ॥ प्रकृतिव्यसनेषु सप्तवर्गस्य महाव्यसनत्वात् तद्दोषदर्शनार्थमस्मिन् सर्गे सप्तव्यसर्नवर्ग उच्यते । तत्रेदं विचिन्त्यते ' पूर्वपूर्वं गुरुतरम्' (सर्ग. १४. श्लो. ९३.) इत्युक्तम् । तत्र राज्ञो राज्यस्य चोभयोर्व्यसने कतरद् गुर्वित्याह- अमात्याद्या इति । अशेषराज्यव्यसनात् पार्थिवव्यसनं गुर्विति सप्तप्रकृतिकं राज्यमिति नेह द्रष्टव्यमिति । अशेषराज्यव्यसनादिति । अमात्यानां बहुत्वात् तद्व्यसनमेव गुर्विति पूर्वपक्षवादिनोऽभिप्रायः ॥ १ ॥ राज्यव्यसनापोहनक्षमः स्वयमव्यसनित्वाद् राज्यव्यसनापोहनसमर्थः । राज्यमूर्जितमपि । स यच्छीलस्तच्छीलास्तस्य प्रकृतयो भवन्ति, उत्थाने प्रमादे च तदायत्तत्वात् । कूटस्थानीयो हि स्वामीति ॥ २ ॥ तस्मादात्मीयव्यसनापोहे स एव (पद)क्ष इत्याह -- आत्मेत्यादि । तत्र द्विधा राजा चक्षुष्मान् (अचक्षुष्मांश्च) । चक्षुष्मानपि द्विविधः सुगृहीतशास्त्रोऽगृहीतशास्त्रश्च । तत्र यः सुगृहीतशास्त्रश्चक्षुष्मान् स व्यसनेभ्यः समुन्नेता समुत्थापयिता ॥ ३ ॥ अशास्त्रचक्षुरिति । शास्त्रमेव चक्षुस्तदस्य नास्तीति कृत्वान्ध उच्यते । वरमन्धो न चक्षुष्मानिति । चलितशास्त्रस्त्वचक्षुष्मान् । स हि शास्त्रादन्यथा निविष्टबुद्धिर्ज्ञानमदाक्षिप्तसन्मार्गों भवति ॥ ४ ॥ १. 'अनेकरा' क.ग. पाठः. २. 'नान्युच्यन्ते' क ख ग घ पाठः . ३. "ज्यं ने' ड.च. पाठः. ४. यं व्यसनित्वान्न रा' ङ. च. पाठः.