पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्यान्तःप्रकोपता, राष्ट्रपालादिकोपस्य बाह्यकोपता, मनुष्यहिरण्याद्यपचयकारिण्या यात्राया निषेधः, अविलम्बेन महाफलसम्भवे हिरण्याद्यपचयकारिण्या यात्राया अभ्यनुज्ञा, मनुष्याद्यपचयकारिण्यास्त्वत्यन्तनिषेधः, अशक्येषु समुद्यमस्य शक्येष्वसमुद्यमस्याकालसमुद्यमस्य च कार्यव्यसनता, कामादीनां लाभकाले समुपाहि तानां सिद्धिविघ्नकारित्वं, मौलादीनां सप्तविधपक्षाणां सदानुसृत्यादिभिरनुरागवेदनं, कुलीनत्वादियुक्तस्य सदृवृत्तपक्षता, आत्मगुणेषूद्योगादीनां श्रैष्ठ्यं, सुनयप्रचारस्य मन्त्रशक्तिता, कोशदण्डयोः प्रभुशक्तिता, बलवत्या विक्रमचेष्टाया उत्साहशक्तिता, एतच्छक्तित्रययुक्तस्य जेतृत्वं, शैघ्रचादेरुत्साहगुणता, औत्पादिक्यादिबुद्धेर्मन्त्रगुणता, उत्साहसत्त्वादेः पौरुषता, अरोगतादेर्दैवानुकूल्यता, पक्षादिपञ्चकयुक्तस्य तद्धीनं शत्रुं प्रति यानं, गजानां वर्षास्तुरगाणां हेमन्तो ग्रीष्मश्च यात्राकालः, सामान्यतः शीतोष्णवर्षसाम्यस्य यात्राकालता, समादिप्रदेशेषु तुरङ्गमादिभिर्गमनं, मर्वादिमार्गौवर्षादिकालेषु यानं, शत्रुदेशे स्ववीवधासारत्वादिविशिष्टप्रदेशपर्यन्तमेव गमनं, ततोऽधिकं गच्छतः शत्रुभिराघातः, मार्गे रात्रिषु सैन्यरक्षां विधाय स्वयं योगनिद्राकरणम्, अन्तरा प्रतिबोधसमये के जाग्रतीति निरूपणं, प्रातः प्रबुद्धस्य मन्त्रिभिः कर्तव्यतां सम्प्रधार्य शस्त्रिभिरात्मकल्पैः सह बहिर्निर्गमनं, हस्त्यादिचर्यायाः प्रतिदिनं द्विः सान्नाह्यानां हस्त्यादीनां च दर्शनं, स्मितपूर्वाभिभाषणादिभिः सर्वेषामावर्जनं, रथादियानेषु धनुषि च प्रगल्भस्यापि नित्यं तत्र व्याप्टतिः, चरैर्दूतैश्च परप्रचारदर्शनं, स्वीयवीवधासारप्रवर्तनार्थं यत्किञ्चिद् दत्त्वा विलोभनेन शत्रोरन्तपालस्य मित्रीकरणं, शत्रुपण्यस्य सञ्चारपरम्परयादानं, दूतमुखेन शत्रोः प्रकृत्यादीन् भित्त्वा शत्रुणा सह सन्धानं, विसन्धौ शत्रौ प्रकृतिभ्यः शत्रोर्भेदः स्वस्यैक्यं च, पथि सामदानाभ्यां दौर्गादिवशीकरणं, विरुद्धदेशेषु विरुद्धकृते निरोधे तैर्मार्गविज्ञानं, पूर्वमरिं सेवितवतस्तदात्मानमाश्रितस्य स्वपुरुषस्यैव वारिं सेवित्वागतस्य बुद्धिपरीक्षणं, दोर्बलान्मन्त्रबलस्य गरीयस्त्वं, हेमन्ते शरदि ग्रीष्मे वाभियोगाय गमनम्, एवमनुतिष्ठतः शत्रुजयस्यावश्यं सिद्धिः । २५. स्कन्धावारनिवेशनप्रकरणम्, २४७–२५१. शत्रुनगरसमीपं गतस्य वास्तुकर्मप्रशस्ते भूभागे स्कन्धावारनिवेशनं, चतुरथाविसंस्थानभेदस्य स्कन्धावारागारस्य कल्पनं, तन्मध्ये राजमन्दिरकल्पनं, तत्