पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दिव्यसनसमुन्नेतू राज्ञास्त्रवर्गफलनाप्तिः, अशास्त्रज्ञस्य राज्ञोऽन्धता, अन्धस्य मंत्रिवशवर्तिनोऽभ्युदयः, विपरीतस्य राज्येन सह नाशः, वाक्पारुष्यादीनां त्रयाणां धजव्यसनता, मृगयादीनां चतुर्णां कामजव्यसनता, वाक्पारुष्यस्य दण्डपारुष्यस्य चोद्वेजनतया तत्परित्यागेन प्रियवाचा युक्तदण्डेन च लोकावर्जनं, राज्याहारेऽपराधे प्राणान्तिकदण्डस्य प्रशंसा, दूप्यदूषणार्थं महीयसोऽर्थस्य त्यागोविदूषणं; तस्याकरणं, यानक्षोभादीनां यानव्यसनता, प्रतसिकता भूमिसञ्चारादीनां गयाव्यसनता, जितश्रमत्वादीनां मृगयागुणता, तेषामन्यथैव सिद्ध्या मृगयायार्जनं, नगरान्तिके विशिष्टं मृगयारण्यं रचायित्वा तत्र मृगयाविधानं, धननाशानां द्यूतदोषता, पाण्डवादीनां द्यूतेनानर्थप्राप्तिः राज्ञा मल्लादीनां प्राणिद्यूतनिवात्वम्, द्यूतदोषाणां कार्यकालातिपातादीनां च स्त्रीव्यसनता, वमनादीनां पानव्यसत्वम्, अन्धकवृष्णीनां पानेन क्षयप्राप्तिः शुक्रस्य पानमदादौरसस्य भक्षणं, द्यूतमृगययोरत्यन्तविवर्जनम्, उक्तेष्वेकेनापि व्यसनेन नाशाप्तिः, सप्तकस्यास्य दुरतता । २४. यात्राथियो कृप्रदर्शनप्रकरणम्. २२६ - २४६. व्यसनहीनस्य शक्तित्रययुक्तस्य व्यसनिनं शत्रु प्रत्यभियानं, व्यसनस्या- नित्यत्वाच्छक्त्याद्यभ्युच्चि तस्य वा शत्रु प्रति यानं, विजयाय गच्छतो राज्ञः शत्रुविषय सस्योपघातः, विशुद्ध पृष्ठस्य स्ववी वधासारविशुद्धमार्गस्य दुर्गान् विचिन्वतः शत्रुकर्मपरिज्ञानपूर्वकं शत्रुभूमिप्रवेशः, भूमेः समादिप्रदेशेषु सुगममार्गेण यानं, ग्रीष्मे गजतापशान्तये प्रभूताम्बुवनेन मार्गेण गमनम्, अन्यथा जलाभावे ग्रीष्म- तापेन गजानां कुष्ठरोगोत्पत्तिः, स्वास्थ्येऽपि जाज्वल्यमानस्य शरीरतापस्य व्याया- मयोगे प्रवृद्धया गजनाशकत्वं, सर्वेषामेव सत्त्वानां ग्रीष्मे जलाभावेन कृच्छ्रप्राप्तिः, करिणां तु सद्यो मृतिः, राज्यस्य मत्तमतङ्गजेषु प्रतिबद्धता, वीरतमाधिष्ठितस्यैकस्य गजस्याश्वानां षष्टिशतनाशनशक्तिः, गजवतः सैन्यस्य सर्वत्रापि स्थलभेदेषु विज- यः, क्षुद्रस्यापि शत्रोः पश्चात्कोपजननक्षमता, पुरःसाध्यादपि फलात् पश्चात्को- पस्य गरीयत्त्वेन तत्प्रतिविधानपूर्वकमेव यानं, यानसमये नगरेऽनेकमुख्यस्यार- क्षबलस्य निधानं, पाणिग्राहं प्रति जाताशङ्कस्यावश्ययातव्यतायां पुरः सेनापते- युवराजस्य वा प्रेषणं, बाह्यादाभ्यान्तरस्य बलीयस्त्वेनाभ्यन्तरान् कुपितान् सामा- दिभिः प्रसाध्य बाह्यांश्च प्रतिविधानेन निर्दोषान् कृत्वा यानं, पुरोहितादिकोप-