पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः द्वाविंशं प्रकरणम् । २०९ इत्यादि सर्वं प्रकृतेर्यथावद् बुध्येत राजा व्यसनं प्रयत्नात् । बुद्ध्या च शक्त्या व्यसनस्य कुर्यादकालहीनं व्यवरोपणं सः ॥ ९४ ॥ * प्रकृतिव्यसनादि भूतिकामः स्वमुपेक्षेत न हि प्रमाददर्पात् । प्रकृतिव्यसनान्युपेक्षते यो नचिरात् तं रिपवः पराजयन्ते ॥ ९५ ॥ इदमिदमिति सम्यक् कर्मणा योजनीयं नियतमिति विचिन्त्य प्रापयेदीहमानः । व्यसनं गरीयः । दण्डेन मित्रामित्राणां साधनात् । दण्डवतो मित्रा (णाम ? णि) मित्रभावे तिष्ठन्ति, अमित्राश्च मित्रभावे । ततोऽपि कोशव्यसनं गरीयः । कोशेन हि क्षीणं बलं वर्धते । कोशाभावे च दण्डः परं गच्छति । ततोऽपि दुर्गव्यसनम् । तत्र हि कोशदण्डयोः संश्रयात् । तदभावे च कोशः परेषामेव स्यात् । ततोऽपि जनपदेव्यसनम् । तन्मूलत्वाद् दुर्गकोशदण्डमित्राणाम् । तस्मादप्यमात्यव्यसनं गरीयः । जनपँदे हि सर्वारम्भाणाममात्यपूर्वकत्वात् सर्वकर्मसिद्धीनां तद्व्यसनप्रतीकारस्य च । ततोऽपि स्वामिव्यसनम् । स्वामिना हि शेषप्रकृतीनामसम्पन्नानां सम्पादनात् सम्पन्नानां चाभिवर्धनात् ॥ ९३ ॥ व्यसनप्रदर्शनफलमाह – इत्यादीति । अकालहीनं व्यवरोपणं, कालातिक्रमे हि तदप्रतीकार्यमपि स्यात् ॥ ९४ ॥ यदाह – प्रकृतिव्यसनानीत्यादि । प्रमादाद् दर्पात् कामासङ्गात् शौर्यावलेपाच्च ॥ ९५ ॥ इदमिति वस्तुमात्राभिधानान्नपुंसकलिङ्गता । इतिशब्दस्तस्मादर्थे । प्रकृतिव्यसने यस्मादयं दोषस्तस्मादियं प्रकृतिरनेन कर्मणा योजनीया, तेन चेयमिति सम्यग् विचिन्त्य पश्चाच्चेष्टमानस्तद् नियतं कर्म प्रापयेत् प्रकृतिम् । ततः किं १. 'यत्' ख.ग. पाठः. २. 'दस्य व्य' क.ख.ग. घ. पाठः. ३. 'देऽपि हि' ङ. पाठः.

  • 'प्रकृतिव्यसनानि भूतिकामः समुपेक्षेत' इति व्याख्याभिमतः पाठः स्यात् .