पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२०८ कामन्दकीय नीतिसारे [चतुर्दश: युध्यते शून्यमूलं हि यत्नान्मौलेन पालितम् । अस्वामिसङ्गतं नैव स्वामिना यद् विनाकृतम् ॥ ८९ ॥ न युध्यते भिन्नकूटं भिन्नकूटमनायकम् । पश्चात् कोपातिसन्तप्तं दुष्पार्ष्णिग्राहमक्षमम् ॥ ९० ॥ अदेशिकं स्मृतं ह्यन्धं तन्मूढत्वात् क्रियाक्षमम् । बलव्यसनमित्यादि तत् समीक्ष्य समुत्पतेत् ॥ ९१ ॥ दैवोपपीडित ग्रस्तं मित्रं शत्रुबलेन च । कामको समुत्थैश्व दोषैः संपरिकीर्तितैः ॥ ९२ ॥ नरेन्द्राद्याः प्रकृतयः सप्त याः परिकीर्तिताः । पूर्वपूर्व गुरुतरं तासां व्यसनमुच्यते ॥ ९३ ॥ स्वामिना यद् विनाकृतमिति । यन्नापद्यधिष्ठितं तदस्वामिसङ्गतं नैव युधि क्षमम् ॥ ८९ ॥ भिन्नकूटमनायकं विनष्टा (रिमी ! त्मी) यस्वामिपदम् । तद् भर्तृवधामर्षितं भर्तृपिण्डेन निर्देशार्थं युध्येत । दुष्पाणिग्राहमिति । दुष्टः पार्ष्णिग्राहो यस्य तत्, किमयं करिष्यतीति पृष्ठाभिघातस्तं न तत् क्षमम् ॥ ९० ॥ अदेशिकमिति । देशिक उपदेष्टा । स्वयं तावद् बलमदेश कुशलं, तस्योपदेष्टापि नास्तीत्यदेशिकम् । मूढत्वादन्धत्वादस्य सर्पवत् प्रवर्तनं क्रियास्वक्षमम् । बलव्यसनमित्यादि । आदिशब्दात् कामकोपजव्यसनोपग्रहः । तत् समीक्ष्य सा- ध्यासाध्यतया ॥ ९१ ॥ मित्रव्यसनमाह - दैवोपपीडितमिति । दैवव्यसनाभिभूतम् । कामक्रो- घसमुत्थितैर्मृगयादिभिर्वाक्पारुष्यादिभिश्च स्वदोषैर्मस्तम् ॥ ९२ ॥ अरिविजिगीष्वोः प्रकृतिव्यसनयौगपद्ये सौकर्यतो यातव्यं चेति दर्शयितुमाह - नरेन्द्राद्या इत्यादि । पूर्वंपूर्वं गुरुतरमिति । तंत्र मित्रव्यसनाद् दण्ड- १.. 'वेन पी' ख.ग. पाठ: २. 'ण्डे नि' च. पाठः. ३. 'त्वादस्य' ङ.च. पाठः. ४. 'व्यं रक्षितं चे' क.ख.च. पाठः.