पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] २०७ द्वाविंशं प्रकरणम् मित्रं शत्रुभिरेकस्थं तदाक्रान्ततयाक्षमम् । शत्रोरुपनिविष्टं तत्सामर्थ्यान्न क्षमं युधि ॥ ८४ ॥ दूष्ययुक्तं तदुद्धाराद् युध्येतोद्धृतकण्टकम् । प्रधानयोधसंगुप्तं दृष्ययुक्तं समुत्पतेत् ॥ ८५ ॥ स्वविक्षितं स्वविषये क्षिप्तमापद्युदाहृतम् । प्रकृष्टदेशकालत्वान्मित्रक्षिप्तमयौगिकम् ॥ ८६ ॥ धान्यादेर्विवधः प्राप्तिरासारस्तु सुहृद्वलम् । विच्छिन्नवीवधासारं बलं युद्धाय नेष्यते ॥ ८७ ॥ कृतजानपदारक्षं शून्यमूलं युधि क्षमम् ।

पितृपैतामहं मौलं तेन शून्यं हि न क्षमम् ॥ ८८ ॥

एकस्थमिति शत्रुभिः सह यात्रायामेकस्थानस्थितम् । तदरिमित्रं बलम् । तदाक्रान्ततयेति अरिमित्रापगृहीतत्वादक्षमम् । उपनिविष्टं शत्रोः समीपे निविष्टं पृथग्यानावस्थितं प्राधान्यानवस्थानादाक्रान्तं भवति । ततश्वासामर्थ्यान्न क्षमं युधि ॥ ८४ ॥ तदुद्धारादिति । शल्योद्धारादुद्धृतकण्टकं भवति । अनुद्धारे वो गत्यन्तरमाह —- प्रधानयोधसंगुप्तमिति । आप्तयोधाधिष्ठितं हि दूष्ययुक्तं समुत्पतेद् युध्येत ॥ ८५ ॥ स्वविक्षिप्तम् आपद्युदाहृतम् । कौटिलीये तथायुक्तं "स्वविक्षिप्तं स्वभूमौ विक्षिप्तं सैन्यमापदि *शक्यमावाहयितुं, न मित्रविक्षिप्तं प्रकृष्टदेशत्वाद" (कौ. अर्थ. ८. ५. १३३, १३४.) इति । मित्रविक्षिप्तम् असाध्यसाधनार्थं मित्रेषु दत्तम् ॥ ८६ ॥ धान्यादेरिति । आदिशब्दात् स्नेहक्षारलवण भैषज्यादिपरिग्रहः । स्वदेशात् तेषां पृष्ठतः प्राप्तिर्विवधः । मित्रबलमासारः । तदुभयं विच्छिन्नं यस्य तदाहारादिवैकल्यान्न युद्धाय ॥ ८७ ॥ शून्यमूलमिति । शून्यं स्थानीयं यस्य तद् जानपदैः कृतमूलरक्षणं सर्वसन्दोहेन युध्येत ॥ ८८ ॥ १. 'न युध्येत यु' मूलकोशेषु पाठः २. 'तदक्ष' ख.ग. पाठः. ३. 'पविष्टं पृ' क ख ग घ . पाठ:. ४. 'तं तदा' ङ.च. पाठः . ५. 'चापि विध्यन्त' ङ. पाठः. ६. 'वीं' च. पाठः. पाठ:

  • 'शक्यमपत्रावयितुं, न मित्रविक्षिप्तं विप्रकृष्टदेशकालत्वात्' इति मुद्रितकौटिलीयार्थशास्त्र-