पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२०६ [चतुर्दश: कामन्दकीय नीतिसारे युध्येतानृतसम्प्राप्तं यथायुधवाहनम् । कलत्रगर्मि चोनीतकलत्रं समरक्षमम् ॥ ८० ॥ अनेकराज्यान्तरितमतिक्षिप्तं न युध्यते ।

अन्तर्गतामित्रशल्यमन्तःशल्यं हि न क्षमम् ॥ ८१ ॥ अन्योन्यस्माद् विनिर्भिन्नं भिन्नगर्भ न युध्यते । तथैवापसृतं शक्तं नैकराज्यान्तरीकृतम् ॥ ८२ ॥ . अवमुक्तमपक्रान्तमुख्यं तन्न क्षमं युधि । पितृपैतामहं मौलं तत् क्रुद्धं सान्त्वितं क्षमम् ॥ ८३ ॥ यथा (शक्त्या?र्हा) युधवाहनं यथाकालैरायुधवाहनैर्युक्तम् । कलत्रगर्भि चेति । अयुद्धयोग्यः स्त्रीकर्मकरवर्गः कलत्रं, तेनान्तः प्रविष्टेन युक्तम् । समरं युद्धम् ॥ ८० ॥ अनेकराज्यान्तरितं शत्रु मित्रादिराज्यातिक्रान्तम् । अमित्र एव शल्यम् ॥ ८१ ॥ अन्योन्यस्माद् विनिर्भिन्नं परस्परभयान्न युध्येत । नैकराज्यान्तरीकृतमिति शत्रुराज्येनैकान्तरितं न युध्यते । एतच्चातिक्षिप्ताल्लघु व्यसनम् ॥ ८२ ॥ अपक्रान्तम्मुख्यमिति । शौर्यादियुक्ता मुख्याः, तेऽपसृता यस्मात् तद् बलमपक्रान्तमुख्यम् । तन्न क्षमं युधि । मुख्येषु हि युद्धं, न क्षुद्रेषु । सान्त्वितं क्षममिति । यत्र मौलं कुपितं, तत् सान्त्वितं युधि क्षममिति योज्यम् ॥ ८३ ॥ १. 'सङ्गर' क. पाठः. २. 'क्षीणं न' ख.ग. पाठः. 99 ३, 'च तत्सम' ख.ग. पाठः. ४. 'कोपनि' क. पाठः. ५. 'तु' ख.ग. पाठः ६. 'परिमृष्टमविका' क. पाठ:. ७. 'बलम् क. पाठः. ८. 'ज्यान्तरितम् ' ङ. च. पाठः ९ 'ते प्रसृ' ग. घ. पाठः १०. 'षु तत् क्षतम् । सा क.ख.ग.घ. पाठः. ११. 'तं बलं यु' क. ख. ग. घ- पाठः.