पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] द्वाविंशं प्रकरणम् । युध्येताभृतमत्यर्थं तदात्वकृतवेतनम् । न व्याधितमकर्मण्यं व्याधितं परिभूयते ॥ ७५ ॥ परिश्रान्तं हि युध्येत विश्रान्तं सुविधानतः । दूरायातं हतप्राणं न शस्त्रग्रहणे क्षमन् ॥ ७६ ॥ नवागतं हि युच्येत तदेश्यैनिश्रितं नयात् । हतमुख्यप्रवीरं तु परिक्षीणं न युध्यते ॥ ७७ ॥ युध्यते हि प्रतिहतं शरैः सह सङ्गतम् । हताप्रवेगं शक्तं न प्रसाधितपुरस्सरम् ॥ ७८ ॥ आशानिर्वेद्य लब्धार्थ पूर्णाशत्यात् तु युध्यते । अभूमिष्ठं प्रसारे न निरुद्धेऽल्पतया भुवः ॥ ७९ ॥ तदात्वकृतवेतनं समुत्पन्नेकार्यकाले दत्तवेतनम् ।अकर्मण्यं व्याधिपीडितत्वाद् युद्धादिकर्मासमर्थ परिभूयते च ॥ ७५ ॥ विश्रान्तं सुविधानतः जानभोजनस्वप्नादिभिः । हतप्राणं दूराध्वपरिपी- डितत्वात् ॥ ७६ ॥ नवागतम् अन्यदेशादागतम् । तद्देश्यैस्तत्रत्यैर्बलैः । मिश्रितं यात् तद्देश्योपलब्धदेशम् । हृतमुख्यप्रवीरम् अन्यत्राहवे । (परिक्षीण) क्षीणवाहनयोधम् ॥ ७७ ॥ प्रतिहतं प्रथमसम्पातभग्नम्। प्रमाथितपुरस्सरं निहताग्रवीरं शूराभावान्न तच्छक्तम् ॥ ७८ ॥ आशानिर्वेदीति । प्रत्याशया निर्वेदो भङ्गोऽस्यास्तीति मत्वर्थीयः । अभूमिष्ठम् अयुद्धयोग्यभूमिप्राप्तम् । प्रसारो व्यायामः, तस्मिन् भूमेरल्पत्वान्निरुद्धे ॥ ७९ ॥ १. 'हि' क. पाठः. २. 'युग्यप्र' क. पाठ:.. मूलकोशपाठः. ५. 'नकाले' क.ख.ग.घ. पाठः. ३. 'स्तं' ख.ग. पाठ:. ४. 'युध्येताल्प' ६. 'श' च पाठः.