पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२०४ चतुर्दश: कामन्दकीय नीतिसारे कलत्रगर्म्यतिक्षिप्तमन्तःशल्यं तथैव च । भिन्नगर्भं ह्यपसृतेमवमुक्तं तथैव च ॥ ६९ ॥ क्रुद्धमौलौरिमित्रं च निविष्टं वापि विद्विषा । दृष्ययुक्तं स्वविक्षितं मित्रविक्षितमेव च ॥ ७० ॥ विच्छिन्नवीवधासारं शून्यमूलं तथैव च ।- अस्वामिसङ्गतं चैव भिन्नकूटं तथैव च ॥ ७१ ॥ दुष्पार्ष्णिग्राहमन्धं च बलव्यसनमुच्यते । [ अत्र किञ्चिदसाध्यं तु किञ्चित् साध्यं तदुच्यते ॥ ७२॥ उपरुद्धं तु युध्येत निर्गत्यान्यत ऊर्जितम् । परिक्षिप्तं न निर्मार्ग सर्वतः परिवेष्टितम् ॥ ७३ ॥ अमानितं हि युध्येत कृतमानार्थसङ्ग्रहम् । न विमानितमत्यर्थे प्रदीप्तक्रोधपावकम् ॥ ७४ ॥ अत्र किञ्चिदिति त्रयस्त्रिंशद्बलव्यसनेषु । तदुच्यते यत् साध्यमसाध्यं च ॥ ७२ ॥ अन्यत इति अनुपरुद्धेन मार्गेण निर्गत्य । सर्वतः परिवेष्टितं निर्गमा-भावात् कथं युध्येत ॥ ७३ ॥ कृतमानार्थसङ्ग्रहं कृतो मानार्थाभ्यां स्वीकारो यस्येति विग्रह: । विमा- नितं वाक्पारुप्यादिना । क्रोधपावकः क्रोध एव पावकः ॥ ७४ ॥ १. 'धि' ख.ग. पाठः. २. 'तं परिमृष्टं त' क. पाठः. ३. 'लं विमिश्रं च' ख.ग. पाठः, 'लाविमिश्रं च ' क. पाठः. ४. 'वि' ख.ग. पाठः. ५. 'षि' क. पाठ. ६. 'च' क. पाठः. ८. 'संहतं चापि भि' क. पाठः, ९. 'हसम्बद्धं व' क. पाठः. ११. 'तः' च. पाठः. ७. 'छिन्नमू' क. पाठः. १०. 'हः' च. पाठः.