पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] द्वाविंश प्रकरणम् । अतिवृष्टिरनावृष्टिर्मूषिकाः शलमादयः । असत्करश्च दण्डश्च परचक्राणि तस्कराः ॥ ६३ ॥ राजानीकप्रियोत्सर्गी मारकव्याधिपीडनम् । पशूनां व्यसनं रोगो राष्ट्रव्यसनमुच्यते ॥ ६४ ॥ विशीर्णयन्त्रप्राकारपरिखात्वमशास्त्रता । क्षीणघासेन्धनान्नत्वान् दुर्गव्यसनमुच्यते ॥ ६५ ॥ व्ययीकृतः परिक्षिप्तो भक्षितोऽसश्चितस्तथा । मुषितो दूरसंस्थश्च कोशव्यसनमुच्यते ॥ ६६ ॥ उपरुद्धं परिक्षिप्तं विमानितममानितम्। अभृतं व्याधितं श्रान्तं दूरायातं नवागतम् ॥ ६७ ॥ परिक्षीणं प्रतिहतं प्रहताग्रजवं तथा । आशानिवैद्यभूमिष्ठमनृतप्राप्तमेव च ॥ ६८ ॥ २०३ मूषिकाः शलभादय इति । आदिशब्दादमिदुर्भिक्षोपग्रहः । असत्करः अशोभनः करः अतिमहत्त्वात् । परबलं पीडाहेतुत्वात् ॥ ६३ ॥ राजानीकप्रियोत्सर्ग इति । राज्ञो यत् सैन्यं, ये च वल्लभाः, तेषामनि- यमनमुत्सर्गः । मारकव्याधिपीडनं मनुष्याणाम् || ६४ ॥ यन्त्रं सर्वतोभद्रादि । परिखा खातकम् ॥ ६५ ॥ व्ययीकृतः असद्व्ययेन । परिक्षिप्तः मैण्डलस्थानेषु खण्डखण्डेनावस्थितः । भक्षितः कृमिभिः । असञ्चितः दुर्न्यस्तः । मुषितः सामन्ताटविकादिभिः । दूर- संस्थो विजिगीषुप्रदेशात् ॥ ६६ ॥ दण्डव्यसनमाह - उपरुद्धमित्यादि ॥ ६७, ६८, ६९, ७०, ७१ ॥ १. 'अवृष्टिरतिवृष्टिश्च मू' क. पाठः. २. 'दभूयिष्टं' मूलकोशेषु पाठः . 'नेषु खण्डे' ब.च. पाठः. ३. 'स्थानस्था-