पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२०२ चतुर्दश: कामन्दकीय नीतिसारे एतत् सर्वममात्यादि राजा नयपुरस्सरः । नयत्युन्नतिमुद्युक्तो व्यसनी क्षयमेव तु ॥ ५९ ॥ तस्मिन् धर्मार्थयोर्व्यत्रे तथैवास्वस्थ चेतसि । सर्वमेतद् विशेषेण मन्त्री सन्नेतुमर्हति ॥ ६० ॥ ( इति प्रकृतिकर्म नामैकविंशं प्रकरणम् )

  • २२ प्रकृतिव्यसनप्रकरणम् *

वाग्दण्डयोथ पारुष्यमर्थदूषणमेव च । पानं स्त्री मृगया द्यूतं व्यसनानि महीपतेः ॥ ६१ ॥ आलस्यं स्तब्धता दर्पः प्रमादो वैरकारिता । इति पूर्वोपदिष्टं च सचिवव्यसनं स्मृतम् ॥ ६२ ॥ सप्तानामपि स्वामिप्रकृतिः प्रधानमिति दर्शयन्नाह - एतदित्यादि । नयत्युन्नतिम् अतिवृद्धिम् । कूटस्थस्थानायो हि स्वामी, तदायत्तत्वादमात्यादीनाम् ॥ ५९ ॥ अस्यापवादमाह -- तस्मिन्निति । राज्ञि धर्मार्थयोर्व्यग्रे, व्यसनप्रवृत्ते तु मन्त्र्यपि तद् विद्वान्न शक्नोति सन्नेतुमुन्नतिम् । स यच्छीलस्तच्छीला हि प्रकृत- यो भवन्तीति । अस्वस्थचेतसि पर( वश ) शरीरे ॥ ६० ॥ ( इति प्रकृतिकर्म नामैकविंशं प्रकरणम् ) येषु व्यसनेषु प्रकृतिकर्म न विद्यते तानि व्यसनान्येकत्रिंशता श्लोकैराह - वागित्यादि । एतानि सर्तें महाव्यसनानि कोपकामजानि विस्तरतो द्वितीये सर्गे वक्ष्यति ॥ ६१ ॥ स्तब्धता मानः । दर्पो मदः । प्रमादोऽनवधानता । पूर्वोपदिष्टं वाक्पारुप्यादि ॥ ६२ ॥ १. 'दशे' ख.ग. पाठ: २. 'साचिव्यं व्य' ख.ग. पाठः, ३. प्रसनप्रवृत्ते तु मन्त्र्यपि तद्विधिना शक्नोति सन्नेतुमुन्नतिम् । संयतलीलस्तल्लीला हि प्रकृतयो भवन्तीति । स्वस्थ शरीरे' च. पाठः. ४. 'प्तव्य' क. ख. ग. घ. पाठः. + 'उत्तर' इत्यर्थः.