पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः [] एकविंश प्रकरणम् । अदण्डनमदण्ड्यानां दण्ड्यानां चापि दण्डनम् । अग्राह्याग्रहणं चैव ग्राह्माणां ग्रहणं तथा ॥ ५३ ॥ अर्थयुक्तस्य करणमनर्थस्य च वर्जनम् । न्यायतश्च करादाने स्वयं प्रतिमोक्षणम् ॥ ५४ ॥ समर्थनं प्रधानानां निरस्यानां निराकृतिः । वैषम्याणां प्रशननं भृत्यानां चाविरोधनम् ॥ ५५ ॥ अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयः आरम्भः कर्मणः शश्वदारब्धस्यान्तवर्शनम् ॥ ५६ ॥ अलब्धलिप्सा न्यायेन लब्धस्य च विवर्धनम् । परिवृद्धस्य विधिवत् पात्रे सम्प्रतिपादनम् ॥ ५७ ॥ अधर्मप्रतिषेधश्व न्यायमार्गेण वर्तनम् । उपकार्योपकारित्वमितिवृत्तं महीपतेः ॥ ५८ ॥ २०१ अदण्ड्याः फल्गुक्रीडादिप्वपि शिष्टाचाराः । दण्ड्याश्वोरादयः । अग्रा ह्याः पूर्वविरोधिताः प्रक्वतिविद्विष्टा वा । ग्राह्याः प्रज्ञादियुक्ताः खिग्धा वा ॥ ५३ ॥ अर्थ (प्र) युक्तं हीनविग्रहादि । अनर्थो बलवद्विग्रहादिः । न्यायतः पूर्वप्र- सिद्ध्या । स्वयं प्रतिमोक्षणं धनानामनतिलोभेन ॥ ९४ ॥ समर्थनं गुणाध्यारोपण | प्रधानाः मुख्याः । निरस्याः दूष्याः । वैषम्यों- (णां प्रशमनम् ) असमानां समीकरणम् । विरोधनं परस्परदोषाख्यानेन ॥ ५५ ॥ आरम्भः कर्मणः अनारब्यस्येत्यर्थात् । अन्तदर्शनं समापनेन ॥ ५६ ॥ लिप्सा आर्जनम् । सम्प्रतिपादनं यदि प्राक् परिरक्षितं भवति । तस्मादरक्षितस्य रक्षणं चेत्यर्थाद् बोद्धव्यम् ॥ ५७ ॥ न्यायमार्गः धर्मशास्त्रविहितः । उपकार्योपकारित्वम् उपकर्तव्येषूपका- रिता ॥ ५८ ॥ १. 'राणां च प्र' मूलकोशेषु पाठः. ४. 'म्यं समास' च. पाठः. २. 'चानुरो' ख.ग. पाठः. ३. 'घु शि' च, पाठः.