पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२००[चतुर्दश: कामन्दकीयनीतिसारे मध्योदासीनचरितज्ञानं तत्सिंद्धिपालनम् । प्रतिग्रहश्च मित्राणाममित्राणां च निग्रहः ॥ ४९ ॥ पुत्रदारादिगुप्तिश्च बन्धुवर्गपरिग्रहः । खनिद्वीपवनादीनां स्ववृत्तीनां प्रवर्तनम् ॥ ५० ॥

असतां च परिक्षेपः सतां च परिगूहनम् । अहिंसा सर्वभूतानामधर्माणां च वर्जनम् ॥ ५१ ॥ अकार्यप्रतिषेधश्च कार्याणां च प्रवर्तनम् । प्रदानं च प्रदेयानामदेयानामसङ्ग्रहः ॥ ५२ ॥ तत्सिद्धिपालनमिति । मध्यमोदासीनयोः साधनं रक्षणं च । प्रतिग्रहः स्वीकरणम् ॥ ४९ ॥ पुत्रदारादिगुप्तिः पुत्राणां कर्कटकसधर्मत्वाद्, दाराणां चासन्नवृत्तित्वात् । खनिद्वीपवनादीनामिति । आदिशब्दाद् दुर्गसेतुवणिक्पथशून्यनिवेशद्रव्यवनपरिग्रहः । ता एव राज्ञो वृत्तयः ॥ ५० ॥ 3 असतामिति । प्रज्ञाशौचशौर्यादियुक्ताः सन्तः तद्विपर्ययेणासन्तः, तेषां परिक्षेपो दानमानव्यपरोपणम् । परिगूहनं पूजया स्वीकरणम् । अभूतहिंसा अप्रवर्तितपूर्वा शास्त्रविगर्हिता अधर्म्या यज्ञादन्यत्र या हिंसा ॥ ५१ ॥ कार्य करणा इन्द्रमहादि । प्रदेया दानार्हाः क्षेत्रादयः । अदेयाः अदाना अश्रोत्रियादीनामर्था:, तेषाम् असङ्ग्रहः असाधनम् ॥ ५२ ॥ १. 'त्सन्धिपा' मूलकोशपाठः २. 'परिय' क. पाठः ३. 'ये चैवानुव' ख. ग. पाठः. ४. 'मनहीणामस' ख.ग. पाठः. ५. 'सन्धिसाधनं वा रक्षणं वा प्र' ङ, च· पाठः ६. 'ना विहिता' ग. घ. पाठः . ७. 'ब्रह्मदेयादयः' ङ. च. पाठः. ८. 'र्हाः श्रो' क.ख.ग. घ. पाठः. ९. 'षां संग्रह आदानम् ङ. च. पाठः. $ 'अभूतानां च हिंसानाम्' इति मूलपाठं मन्यते.