पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] एकविंशं प्रकरण मन्त्रोद्योगोऽनुमन्त्रत्वं तद्रक्षा तात्स्थ्यमेव च । १९९ उपेक्षा साम दानं च भेदो दण्डश्च साधनम् ॥ ४४ ॥ प्रशास्तृसूतसेनानीमन्त्र्यमात्यपुरोधसाम् । सम्यक् प्रचारविज्ञानं दुष्टानां चापरोपणम् ॥ ४५ ॥ गतागतपरिज्ञानं दूतसम्प्रेषणानि च । प्रकृतिव्यसनापोहः क्रुद्धप्रशमनानि च ॥ ४६ ॥ गुरूणामनुवृत्तिश्च पूज्यानामनुपूजनम् । धर्मासनप्रतिष्ठान राज्यकण्टकशोधनम् ॥ ४७ ॥ भृताभृतपरिज्ञानं कृताकृतपरीक्षणम् । तुष्टातुष्टविचारश्च सर्वेषामनुजीविनाम् ॥ ४८ ॥ मन्त्रोद्योगोडनुमन्त्रत्वमिति । मन्त्रार्थं ज्ञानवृद्धसंयोगः । मन्त्रिभिः सह सम्मन्त्र्य पश्चात् स्वयमेकैकस्य मन्त्रणम् अनुमन्त्रत्वम् । तद्रक्षा मन्त्ररक्षा । तात्स्थ्यं मन्त्रतात्पर्यम् । उपेक्षा उपायविकल्पे वक्ष्यमाणा । साधनमिति उपेक्षादि- पञ्चकस्य कर्मण उपायसाधनत्वात् ॥ ४४ ॥ प्रशास्ता बलाध्यक्ष, सूतः सारथ्यकर्मनियुक्तः, सेनानीश्चतुरङ्गस्य नेता, मन्त्री बुद्धिसचिवः, अमात्यः सन्निधातृसमाहर्त्रादिः, पुरोधाः पुरोहितः । प्रचार- विज्ञानं स्वकर्म किं केनानुष्ठितमिति । दुष्टानामवरोपणं तेषां कर्मसु विकुर्वाणानां पदात् प्रच्यावनम् ॥ ४५ ॥ गतागतपरिज्ञानमिति । किमयं कारणादकारणाद् वा गत आगतश्चेति । क्रुद्धप्रशमनानि कारणादकारणाद् वा क्रुद्धानां सामादिभिः प्रशमनानि ॥ ४६ ॥ गुरूणां संगन्धानामगन्धानां च । पूज्यानां विद्यावृद्धानाम् । धर्मासनप्रतिष्ठानं धर्माधिकरणप्रवर्तनं धर्मस्थैः । राज्यकण्टकशोधनं प्रदेष्टृभिः ॥ ४७ ॥ भृताभृतपरिज्ञानं भृत्यभरणीये ( न षु) । कृताकृतपरीक्षणं कर्मसु नियुक्तेन किं केन कृतमिति । (तुष्टातुष्ट विचारः) भृत्यस्य तुष्टिरतुष्टिर्वेति विचारः ॥ ४८ १. 'ण्डप्रसा' मूलकोशेषु पाठः. २. 'स्रध्यक्षसे' मूलकोशेषु पाठः. ३. 'नां चापि पू' ४. 'गोज्ञा' क.ख.ग. घ. पाठः. ५. 'संग्रहः म' ङ. च. पाठः. ६. 'थ्य. सूनादिक' ङ. च. पाठः. ७. 'सहजानां सगन्धानां च' क.ख. पाठः. ख.ग. पाठः.