पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ चतुर्दशः कामन्दकीय नीतिसारे तत्तत् करोति व बहिर्मित्रं स्नेहनिबन्धनम् । तस्मिन् व्यसनमापन्ने मित्रकर्म न विद्यते ॥ ३९ ॥ उपकारातेऽप्याशु मित्रं श्रेयसि तिष्ठति । मित्रवान् साधयत्यर्थान् दुस्साधानप्यनादरात् ॥ ४० ॥ अन्वीक्षणं व विद्यानां सद्वर्णाश्रमरक्षणम् । ग्रहणं शस्त्रशास्त्राणां युद्धमार्गोपशिक्षणम् ॥ ४१ ॥ व्यायामः शास्त्रविज्ञानं वर्मणां लक्षणानि च । गजाश्वरथपृष्ठेषु यथावत् सम्प्रवर्तनम् ॥ ४२ ॥ नियुद्धकौशलं माया परचित्तप्रवेदनम् । धूर्तता शाख्ययुक्तेषु सत्सु सद्वृत्तदर्शनम् ॥ १३ ॥ तत्तत् करोति यद्यद् विजिगीपोरनुकूलम् । स्नेहनिबन्धनं तदध्युपकारनिरपेक्षं भवति ॥ ३९ ॥ तदेव स्फुटयन्नाह - उपकाराह्रत इति । श्रेयसि विजिगीषुहिते ॥ ४० ॥ स्वामिकर्माह --- अन्वीक्षणम् आलोचनम् । सद्वर्णाश्रमरक्षणमिति । स्व- कर्मसु ये स्थिता वर्णाश्रमाः, ते सन्त उच्यन्ते । ग्रहणं शस्त्रशास्त्राणाम् अध्ययनं धनुर्वेदानाम्। युद्धमार्गोपशिक्षणमिति शास्त्रज्ञानेऽपि योद्धुं न जानातीति तद्विन्यासशिक्षणम् ॥ ४१ ॥ व्यायामः प्लवनलङ्घनादिः । वर्मणां लक्षणानि तद्रव्याणां परिज्ञानानि । गजाश्वरथपृष्ठेषु यथावत् सम्प्रवर्तनं गजादिवाहिकाकौशलमित्यर्थः ॥ ४२ ॥ नियुद्धकौशलं मल्लयुद्धशिक्षणम् । माया तत्प्रवर्तनमिति; मायामुपायविकल्पे वक्ष्यति। परचित्तप्रवेदनम् इङ्गिताकारैः । धूर्तता शाठ्यम् । सत्सु सज्जनेषु ॥ ४३ ॥ १. 'क. क. पाठः. २. 'तदुप' क ख ग घ पाठः.