पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] एकविंशं प्रकरणम् । क्षीणं बलं वर्धयति स्वतो गृह्णाति च प्रजाः । कोशवान् पृथिवीपालः परैरप्युपजीव्यते ॥ ३४ ॥ मित्रामित्रहिरण्यानां भूमीनां च प्रसाधनम् । दूरकार्याशुकारित्वं लब्धस्य परिपालनम् ॥ ३५ ॥ परचक्रविघातश्च स्वदण्डस्य परिग्रहः । १९७ दण्डादेतत् प्रभवति याति तद्व्यसने क्षयम् ॥ ३६ ॥ अरयोऽपि हि मित्रत्वं यान्ति दण्डवतो ध्रुवम् । दण्डप्रायो हि नृपतिर्भुनक्त्याक्रम्य मेदिनीम् ॥ ३७ ॥ संस्तम्भयति मित्राणि शत्रूनुत्सादयत्यपि । भूकोशदण्डैर्व्रजति प्राणैश्चाप्युपकारिताम् ॥ ३८ ॥ क्षीणं बलं वर्धयति । स्वतो वित्ताद्, अन्यथा कोशाभावे दण्डः परं गच्छति । स्वतो गृह्णाति प्रजाः क्षीणाः । परैरपि शत्रुभिः || ३४ || मित्रामित्राणाम् अपचिकीर्षतां हिरण्यानां दुस्साधानां च । भूमीनां सा- मन्ताटविकादिभिराक्रान्तानाम् । प्रसाधनं दण्डेनात्मसात्करणम् । दूरकार्याशुकारित्वं देशान्तरितस्य द्रुतसम्पादनशीलता । लब्धस्य कोशादेः ॥ ३५ ॥ परचक्रविघातः परबलस्याभियुञ्जानस्य व्याघातः । स्वदण्डस्य परिग्रहः स्वस्य दण्डैकदेशस्य पराभवशङ्कायां परिरक्षणेन परिग्रहः ॥ ३६ ॥ अरयोsपि मित्रत्वं यान्ति दण्डवतः । दण्डप्रायो दण्डबहुलः ॥३७॥ मित्रकर्माह - संस्तम्भयति मित्राणि विजिगीषोर्यानि बलाधिकान्यरिमित्रा(णि) भवन्ति, विजिगीषुभयाद् वामित्रानाश्रयन्ति । प्राणैः पराभियोगकाले ॥ ३८ ॥ १. 'स्वतः पुष्णाति च क. पाठः, 'यतो' ख.ग. पाठः २. 'प्रतिपा' क. पाठः ३. 'स्वद' इ. च पाठः. ४. 'राबाधशङ्कया प' ङ. न. पाठः. ५. 'लानि तान्य' क.ख.ग. घ. पाठः.