पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१९६ कामन्दकीय नीतिसारे [ चतुर्दश: तूष्णीयुद्धं जनत्राणं मित्रामित्रपरिग्रहः । सामन्ताटविकाबाधानिरोधो दुर्गसंश्रयात् ॥ २९ ॥ स्वपक्षैः परपक्षैश्च दुर्गस्थः पूज्यते नृपः । एतद्धि दुर्गव्यसनात् सर्वमेव विपद्यते ॥ ३० ॥ भृत्यानां भरणं दानं भूषणं वाहनक्रियाः । स्थैर्य परोपजापश्च दुर्गसंस्कार एव च ॥ ३१ ॥ सेतुबन्धो वणिकर्म प्रजामित्रपरिग्रहः । धर्मकामार्थसिद्धिश्व कोशादेतत् प्रवर्तते ॥ ३२ ॥ कोशमूलो हि राजेति प्रवादः सार्वलौकिकः । एतत् सर्व जहात्याशु कोशव्यसनवान् नृपः ॥ ३३ ॥ तूष्णीयुद्धं योगगूढोपजापादिना । जनत्राणं दुष्टनिग्रहेण । मित्रामित्रपरिग्रहः प्रोत्साहेन । मध्यमोदासीनलिप्सायां हि दुर्गसंश्रयात् तदेव मित्रामित्रानुत्साहयेत् । आबाधा पीडा तस्या (धिरोह : निरोधः) । दुर्गसंश्रयाद् दुर्गे सर्वमेवैतत् कर्मोच्यते ॥ २९ ॥ स्वपक्षैः पूज्यते कालेऽस्माकं मताश्रय इति । अशक्योच्छेदोऽयमिति परपक्षैः स्तूयते ॥ ३० ॥ भरणं पोषणम् । दानं भृत्येभ्य एव तुष्टिकाले । स्थैर्ये कोशात्, सर्वापस्तरणहेतुत्वात् (*परोपजापत्वात् तत्रा ) लब्धप्रकृतिभेदः ॥ ३१ ॥ । सेतुबन्धः सस्यार्थ जलाधारबन्धः । वणिक्कर्म वाणिज्यम् । प्रजापरिग्रहः शून्यनिवेशकाले । मित्रपरिग्रहः पराभियोगकाले । धर्मसिद्धिः पात्रेभ्यः प्रदानात् । कामसिद्धिः शरीरपरिभोगकरणात् । अर्थसिद्धिः “अर्थैरर्था निबध्यन्त" इति न्यायात् ॥ ३२ ॥ कोशमूल इति । अन्यथा हि कोशविकलः कथं स्वामीत्युच्यते ऐश्वर्याभावात् ॥ ३३ ॥ १. 'बलत्रा' मूलकोशेषु पाठः २. 'उच्यते ॥' मूलकोशेषु पाठः ३. 'न विद्य' क. पाठः. ४. 'नं क्रयः , क. पाठः. ५. 'कः सर्व जहातीह को क. पाठः.

  • ' तस्य परोपजापः अ' इति पाठो भवेत् ।