पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] एकविंशं प्रकरणम् । व्यसनस्य प्रतीकारो राजराज्याभिरक्षणम् । इत्यमात्यस्य कर्मेदं हन्ति तद्व्यसनान्वितः ॥ २४ ॥ अनालैर्व्यसनोपेतैर्ह्रियमाणो हि भूपतिः । अशक्त एवोत्पतितुं छिन्नपक्ष इवाण्डजः ॥ २५ ॥ [कोशो दण्ड कुप्यं विधवाहनमेव च) हिरण्यवस्त्रधान्यादि वाहनादि तथैव च । १९५ तथान्ये द्रव्यनिचयाः प्रजातः सम्भवन्ति हि ॥ २६ ॥ वार्ता प्रजा साधयति वार्ता वै लोकसंश्रया । प्रजायां व्यसनस्थायां न किञ्चिदपि सिध्यति ॥ २७ ॥ प्रजानामापदि त्राणं रक्षणं कोशदण्डयोः । पौराचैवोपकुर्वन्ति संश्रयायेह दुर्गिणाम् ॥ २८ ॥ व्यसनस्य प्रकृतीनां प्रतीकारो मन्त्रिपुरोहिताचीनः । तथा राजराज्याभि- रक्षणं मन्त्रिपुरोहिताधीनमेव ॥ २४ ॥ ह्रियमाणः श्रेयसः सकाशात् । छिन्नपक्ष इव पक्षस्थानीयत्वादमात्यादीनाम् ॥ २५ ॥ हिरण्यं सुवर्णरजतादि । वस्त्रं त्वक्फलकृमिरोमभेदाच्चतुर्विधम् । तदुभयं कोशप्रवेश्यम् । धान्यं (पूर्वमध्यापकवाचकं ?) कोष्ठागारप्रवेश्यम् । वाहनं गजाश्वादि दण्डौपयिकम् । द्रव्यनिचयाः सारदार्यादयो दुर्गेपयिकाः । प्रजार्तो जनपदात् ॥ २६ ॥ साधयति सम्पादयति । वार्ता लोकसंश्रया तत्प्रतिबद्धत्वालोकस्थितेः ॥ आपदि पराभियोगे जनपदस्य त्राणं रक्षणं कोशदण्डयोः, अन्यथा दुर्गाभावे कोशदण्डौ परेषामेव स्यातामित्याह -- पौराः तन्निवासिनः । उपकुर्वन्ति कोशादिना । दुर्गिणां राज्ञाम् ॥ २८ ॥ १. 'व द्विजः' क. पाठः.

  • अर्धमिदं क. पुस्तके परं दृश्यते । व्याख्यात्रा च न सृष्टम् ।