पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१९४ कामन्दकीय नीतिसारे [चतुर्दश: हुताशनों जलं व्याधिदुर्भिक्षं मरणं तथा । इति पञ्चविधं देवं व्यसनं मानुषं परम् ॥ २० ॥ दैवं पुरुषकारेण शान्त्या वा प्रशमं नयेत् । उत्थायित्वेन नीत्या वा मानुषं कार्यतत्त्ववित् ॥ २१ ॥ स्वाम्यादिभित्रपर्यन्तं प्राकृतं गण्डलं हि यत् । तस्य कर्मंं प्रवक्ष्यामि व्यसनं च यथाक्रमम् ॥ २२ ॥ मन्त्रो मन्त्रफलावाप्तिः कार्यानुष्ठानमायतिः । आयव्ययौ दण्डनीतिरमित्रप्रतिषेधनम् ॥ २३ ॥ पञ्चविधं दैवमिति । यदा पूर्वजन्ममवदातं कर्म स्वानुरूपकार्योस्पादना मुखं तदा तत्प्रेरिता हुताशनादयः पीडाहेतुत्वाद् दैवं व्यसनमित्युच्यते । मानुषं परं दैवादन्यत् । तथायुकं 'गुणप्रातिलोम्यभावः *प्रदोषसम्प्रयोगः पीडा वा व्यसनम् (कौटि. अर्थ.८.१९.१२८) इति । तत्र पीडा देवी मानुषी च । दैवी हुताशनादिका | स्वपचादिका । तत्र दैवं पीडन मुक्त्वान्यत् सर्व मानुषम् ॥ २० ॥ तत् प्रशाम्य समुत्वदित्युक्तम् । तस्य शमनोपायमाह - दैवमिति । पुरुषकारेण मानुष्या प्रतिक्रियया वह्न्यादिप्रतिपलोपकरणसम्पादनेनेत्यर्थः । शान्त्या दैव्या अथर्ववेदविहितया । उत्थायित्वेन दुर्गादिकर्मसु चेष्टया । नीत्या सन्ध्यादीनां सामादीनां च यथोद्यप्रयोगेण । कार्यतत्वविदिति यथोपेयमुपाय- प्रयोगं दर्शयति ।। २१ ॥ इदानीं प्रकृतिकर्म तद्व्यसनान्यभिधित्सुराह - स्वाम्यादीत्यादि । प्राकृतं मण्डलं सप्तप्रकृतिकं राज्यं, यदुक्तं प्राकू स्वाम्यादिप्रकृतिमण्डलम् ॥ २२ ॥ तत्र षट्त्रिंशता श्लोकैः प्रकृतिकर्माह – मन्त्र इत्यादि । बहुत्वात् स्वामिकर्म प्रकृतिकर्मणः पश्चाद् वक्ष्यति । मन्त्रः कार्यनिश्चयो मन्त्र्यायत्तः । मन्त्रफलावाप्तिः दूरादेवामित्रानुत्सार्य या साध्यस्य फलस्य प्राप्तिर्दृतायत्ता । कार्यानुष्ठानं दुर्गादिकर्मप्रवर्तनमध्वक्षाधीनम् । आयतिः प्रभावोऽमात्यैः क्रियते । आयव्ययौ अक्षपटलिकाधीनौ । दण्डनीतिः वधादीनां दण्डसाध्येषु यथार्हं नयनं धर्मस्थायत्तम् । अमित्रप्रतिषेधनं मित्राधीनम् ॥ २३ ॥

  • 'प्रदोषः प्रसङ्गपीडा' इति मुद्रित कौटिलीयार्थशास्त्रपाठः,